________________
तृतीयः काण्ड
AAAAAAAAAAAAAAAN
बीजकोशे सरोजस्य करमध्यागुलावपि । कुट्टन्यां हस्तिहस्ताग्ने कणिका सूक्ष्मवस्तुनि ॥१७॥ अग्निमन्थे कामुकास्तु काम्यशोकातिमुक्तकाः । कारकं कर्तृ कर्माधोः कारिका यातना नटी ॥१८॥
कमनशीलः कामुकः । “शुकमि" ५-२-४० । इति उकण् । कामिनि वाच्यलिङ्गः। तत्र यथा-परिव्राट् कामुकशुनामेकस्यां प्रमदातनौ । अशोकातिमुक्तकौ वृक्षौ । कारकं कर्तृ कर्माद्योः । करोति कारकम् । कर्तरि वाच्य लिङ्गः। कर्मादौ क्लीबे । कर्तरि यथा-खनितेव हि कूपस्य प्रासादस्येव कारकः । कर्मादौ यथा-षट् कारकाणि सम्बन्ध उक्तानुक्ततया द्विधा । कोरिका यातना नटी। कृतिविवरणश्लोका नापितादिककर्म च । करणं कारिका । भावे णकः । यातना पीडा तत्र यथा-सह्या कथं नरकभूमिषु कारिका स्यात् । नट्यां विवरणश्लोके च यथा-कारिका कारिकेवेयं करोति क्रमनिर्णयम् ॥१८॥ कृतौ नापितादिक कर्मणि च यथा-अकार्षीः कारिकां कां त्वम् । कावृकः कुक्कुटे कोके पीतमुण्डे । कु ईषत् वृक इव कावृकः । “अल्पे” ३--२-१३६ । इति कोः कादेशः । कुक्कुटस्ताम्रचूडः । कोकश्चक्रवाकः । पीतमुण्डः सुगृहाख्यः पक्षी (सुघरी)। अथ कार्मुकः । वंशे । कर्मणे शक्तः कार्मुकः। “योगकर्मभ्यां यो कनौ” ६-४--९४ । इति उकञ् ॥१९।। वंशस्त्वचि सारः। कार्मुकमिष्वासे कर्मठे । कर्मठः कर्मशूरः, तत्र वाच्यलिङ्गः। इष्वासे धनुषि यथा-कार्मुकेणैव गुणिना बाणः सन्धानमेष्यति कर्मठे यथा- कार्मुकः शर्मकारणम् । क्षारको रसे । कोरके पक्ष्यादिपाशे । क्षरति क्षारकः । कोरके पुंक्लीबः । रसे