________________
:
(८)
अनेकार्थसंग्रहः सटीक :
सेनायां राजधान्यां च क्रमुको भद्रमुस्तके । गुवाले पट्टिकालोध कण्टकः क्षुद्रवैरिणि ॥ १५ ॥ वेणौ द्रुमाङ्ग रोमाञ्चे कलङ्कोऽङ्कापवादयोः । कालायसमले चापि कणिका कर्णभूषणे ॥१६॥
।
।
रोमाञ्च च पुंक्लीबः । अन्यत्र पुंसि । क्षुद्रवैरिणि द्रुमाङ्गे च यथा- कटकः कण्टकान् सर्वान् मर्दयामास निर्दयम् । सहि न क्षमते यस्माद् बिन्दुनाप्यात्मनोऽधिकम् ।। १५ । । वेणुवंश: । रोमाचे यथा - लक्ष्मीकरग्रहणकण्टकित प्रकोष्ठः । कलङ्कीऽङ्कापवादयोः । कालायसमले चापि । कीर्यते कलङ्कः । "किरोऽङ्कोरोलच वा" ( उ० ६२ ) इति अङ्कः । अङ्के लाञ्छने यथा- कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीम् । अपवादे यथा - दिनकर कुलास्कन्दी कोऽयं कलङ्कनवाङ्करः । कालायसमले यथा - निष्कलङ्कः कृपाणः । कर्णिका कर्णभूषणे बीजकोशे सरोजस्य करमध्याङ्गलावपि कुट्टन्यां हस्तिहस्ताग्रे । कर्णेभवा कणिका । " कर्णललाटात्कल्" ६-३-१४१ । कर्णयति वा । कर्णभूषणे यथा- कणिकाकिरणकर्बुरितास्याम् ||१६|| सरोजबीजकोशे हस्तिहस्ताग्रे च यथा - गजे स्थिता श्रीपद्म े च भ्राम्यन्मधुपकणिके । कर मध्याङ्गलौ कुट्टन्यां च यथा -कर्णिका स्वर्णवर्णाऽपि वर्ण्या नव विभूषणा (विगतभूषणा ) । कणिका सूक्ष्मवस्तुनि । अग्निमन्थे । सूक्ष्मः कणः कणिका । कणाः स्फुलिङ्गाः सन्त्यत्र वा । सूक्ष्मवस्तुनि यथा - ते ग्रस्ताः पुनरभ्रतोयकणिका तीव्रव्रतैर्बहिभिः ।। १७ ।। अग्निमन्थोऽरणि: । गोधूमपिष्टेऽपि यथा - कणिकाखण्डाज्यकृतो लड्डुको मोदकश्च सः (मोदको लड्डुकश्च सः) । कामुकास्तु काम्यशोकातिमुक्तकाः ।