SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ xxxxxxwwww mmar तृतीयः काण्डः wwwwmorrrrrra लट्वाकरङ्कयोवर्षोपले च कटुकं कटु । कटुरोहिणी व्योषं च कञ्चुकश्चोलवर्मणोः ॥१३॥ वर्धापकगृहीताङ्गवसने वारबाणके । निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ॥१४॥ व्योषं त्र्यूषणम्। कञ्चुकश्चोलव (च) चर्मणोः वर्धापकगृहीताङ्गवसने वारवाणके । निर्मोके । कच्यते कञ्चुकः । “कञ्चुकांशुक" (उ० ५७) इति साधुः । पुंक्लीबः । चोल: कञ्चुलिका। तत्र निर्मोके च यथा-आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चुकौ । वरमाशीविषौ स्पृष्टौ न तु तन्व्याः पयोधरौ । वर्मणि कवचे यथावलानि शूराणि घनाश्च कञ्चुकाः ।।१३॥ वर्धापकगृहीताङ्गवसने यथा-नृत्यन्ति कञ्चुकैलब्धः सौविदल्लाः सुतोत्सवे । वारवाणके नुनिचोले च यथा-अन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादसौ वामनः । कटकस्त्वद्रिनितम्बे बाहुभूषणे । सेनायां राजधान्यां च । कटति कटकः । “द क न” (उ०२७) इति अकः । पुंक्लीबः । अदिनितम्बे यथा-स्फटिककटकभूमि र्नाटयत्येषशैल: । बाहुभूषणे यथा-पद्मरागकटकाङ्कितहस्ताः .।।१४।। सेनायां यथा-मुक्तास्तृणाणि परितः कटकं चरन्तः । राजधान्यां यथा-भ्रातः क्वच्चलितोऽसि यामि कटकं किं तत्र सेवाशया । क्रमुको भद्रमुस्तके। गूवाके (ले) पट्टिकालोधे । कामति क्रमुकः । “क्रमेः कृम् च व” (उ० ५३) इति उकः । भद्रमुस्तको मुस्ताभेदः । गूवाके पूगे यथा आयातः क्रमुकत्वचा विरचितां भिक्षा पुटीमुद्वहन् । पट्टिकालोध्रो रक्तलोध्रः । कण्टकः क्षुद्रवैरिणि । वेणौ द्रुमाङ्गे रोमाञ्चे । कण्टति कण्टकः । “द क नृ" (उ० २७) इति अकः । द्रुमाङ्गे
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy