________________
अनेकार्थसंग्रहः सटीकः
JAVAN
AAAAAAAAAAAAAAAAAN
द
उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गगुलीयके । वीच्यां च कनकं हेम्नि कनको नागकेशरे ॥११॥ धत्तूरे पञ्चके काञ्चनारकिंशुकयोरपि ।
करको दाडिमे पक्षिभेदे करे कमण्डलौ ॥१२॥ ऊमिका । स्वार्थेकः । ऊर्मिप्रतिकृतिर्वा । "तस्य तुल्ये कः संज्ञाप्रतिकृत्योः' ७-१-१०८ । इति कः ॥१०॥ पञ्चस्वर्थेषु अगुलीयके यथा-क्षतोमिकाकनकपरागपङ्क्तिम् । शेषेषु यथाऊर्मिकाभिविभान्त्येता नदीवध्वो लता इव । कनकं हेम्नि । कनति कनकम् । “द क नृ” इति अकः । यथा-दंष्ट्रया कनकभङ्गपिशङ्ग्या। कनको नागकेसरे ॥११॥ धत्तूरे पञ्चके *काञ्चनारकिंशुकयोरपि । पञ्चापि वृक्षभेदाः । करको दाडिमे पक्षिभेदे करे कमण्डला लट्वाकरङ्क (ज) योर्वर्षोपले च। कीर्यते किरति वा करकः । “द क न” इति अकः । कर एव वा । सप्तस्वर्थेषु वर्षोपले त्रिलिङ्गः । कमण्डलुकरङ्कयोः पुंक्लीबः । शेषेषु पुंसि ॥१२।। लट्वा कुसुम्भं तत्र दाडिमे च यथाकरककुसुमताम्रश्चन्द्रमान म्रमूर्तिः । करे मण्डलौं च यथाकरकं करके न्यस्य मस्करी भास्करोदये। करको जलादीनां स्थानम् । तत्र यथा-यस्यां विद्रुमवर्णवर्ण्यकरकप्रोद्गीर्णमर्णश्चिरात् । वर्षोपले यथा-तान् कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् । कटुकं कटु । कटुरोहिणी व्योषं च । कट्वेव कटुकम् । कटौ गुणे पुंसि । तद्वति वाच्यलिङ्गः । तत्र यथाआतपः कटुकोरुक्षश्छायामधुरशीतला। कटुरोहिणी ओषधिः । * यद्यपि केषुचिदनेकार्थेषु कांचनारादिध्वर्थेषु क्लीबत्वमुक्तं तथापि मखादिषु पुंस्त्वम् ।