________________
तृतीय : काण्ड :
भोजने ग्रन्थभागे चाssढकः प्रस्थचतुष्टये । आढकी तुवरीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे ||९|| * उदर्कस्तूत्तरकालफले मदनकण्टके । उष्णको धर्म उद्युक्तातुरयोरूमिका पुनः ॥ १० ॥ देयमाह्निकम् । ग्रन्थभागो ग्रन्थावयवः । यथा - अवान्तरप्रकरणविश्रामे शीघ्र पाठत आह्निकम् । आढकः प्रस्थचतुष्टये | आढौक आढकः । " कीचक" ( उ० ३३) इति अके साधुः । त्रिलिङ्गः । यथा - शाणं पाणितलं मुष्टं कुडवं प्रस्थमाढकम् । द्रोणवहं चक्रमशो विजानीयाच्चतुर्गुणम् । आढकी तुवरी । गौरादित्वाद् ङीः । तुवरी धान्यभेदः । तत्र यथा - आढकी कफपित्तघ्नी किञ्चिन्मारुतकोपिनी । इक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे ।। " इष्यते इक्ष्वाकुः "इषेः स्वाकुक् ( उ० ७५७ ) कटुतुम्ब्यां स्त्रीलिङ्गः । नृपान्तरे नृपविशेषे पुंसि । तत्र यथा - इक्ष्वाकुवंशप्रभवो यदाते भेत्स्यत्यजः कुम्भमयोमुखेन ।।९।। उदर्कस्तूत्तरकालफले मदनकण्टके । उदियत्ति उदर्कः । "निष्कतुरुष्क” ( उ० २६ ) इति के साधुः । उत्तरकालफले यथा - शुभोदर्काय वैकल्यमपि पापेषु कर्मसु । मदनेन कामेन कृतः कण्टको रोमाञ्च मदनकण्टकः । उत्तरकालेऽपि । उष्णको धर्म उद्युक्तातुरयोः । उष्ण एव उष्णकः । उष्णंकारी वा "शीताच्च कारिणि " ७-१-१८६ । इति कः । उद्युक्तातुरयोर्वाच्यलिङ्गः । घर्मो निदाघः । उद्युक्त उद्यमी । तत्र यथापुष्णन्ति भर्तुर्मुदमुष्णका जनाः । आतुरो रोगी । ऊर्मिका पुनः । उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गलीयके । वीच्याश्च । ऊर्मिरेव
*
प्र० स्यादुलुकः काकशत्राविन्द्रे भारतयोधिनि ।
(५)
उष्णिका मृद्भाण्डभेदे करभस्य च योषिति ॥ उदर्क ० ।
O