________________
(४)
अनेकार्थसंग्रहः सटीकः
आलोको दर्शने बन्दिघोषणोद्योतयोरपि । आनकः पटहे भेर्यां ध्वनन्मेघमृदङ्गयोः ॥७॥ आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ ।
आह्निकं स्यात्पुनरहनिर्वये नित्यकर्मणि ॥८॥ षणोद्योतयोरपि । आलोकनम् आलोक्यतेऽनेन वा आलोकः । दर्शने यथा-आलोके ते निपतति पुरा सावलिव्याकुला वा । बन्दिघोषणे यथा-विसृष्टपाश्र्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृतासमस्य । उदीरयामासुरिवोन्मदानामालोकशब्द वयसां विरावैः । उद्योते यथा-तडिद्दीपालोकैदिशि दिशि चरन्तीव जलदाः । आनकः पटहे भेर्यां ध्वनन्मेधमृदङ्गयोः । “अणति शब्दायते आनकः । “अडित्” (उ० ७२) इति आनकः । पटहे भे- मृदङ्गे च यथा-प्रतिनादिताम्बरविमानमाननितरां मुदा परमयेव दध्वने ध्वनन् (नदन् ) मेघो गर्जन्पर्जन्यः ।।७।। आतङ्को रुजि शङ्कायां सन्तापे मुरजध्वनौ । आतङ्कनमातङ्कत्यस्माद्वा आतङ्कः । सन्तापे पुंक्लीबः । रुजि शङ्कायां सन्तापे च यथा-पुरुषायुषजीवियो निरातङ्का निरीतयः । मुरजध्वनौमृदङ्गनादः । आह्निकं स्यात्पुनरहनिर्वत्यै नित्यकर्मणि भोजने ग्रन्थभागे च । अह्नानिवृत्तम् अह्निकम् । “तेन निर्वृत्ते" ६-२-७१। इति इकण् । अह्नि भवं वा “ वर्षाकालेभ्यः " ६-३-८० । इति इकण् । “अनीनाऽदट यह्नोऽतः” ७-४-६७ । इत्यह्नोऽकारलोपः । चतुर्वर्थेषु । अहनिर्वत्र्ये वाच्यलिङ्गः । अन्यत्र क्लीबे। अहनिर्वत्र्ये एकाहनिष्पाद्य । यथा-यस्याह्निकैः प्रबन्धविदुषामनाय विस्मितं चेतः । नित्यकर्मणि यथा-महर्षिहर्षविहितस्नानाह्निकालाय वः ।।८॥ भोजने यथा-मध्याह्न