________________
तृतीयः काण्ड: wwwwwwwwwwwwwwwwwwwwwwwwwwwww
*अलर्को धवलार्के स्याद्योगोन्मादितशुन्यपि । अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि ॥५॥ अन्धिका तु केतवे स्यात्सर्षपीमिद्धयोरपि ।
अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च ॥६॥ ऽनेकस्वरात्” ७-२-६ इति इकः । धर्ममात्रे क्लीबे तद्वति वाच्यलिङ्गः । यथा-तामन्तिकन्यस्तबलिप्रदीपाम् । अन्तिका तु चुल्ल्यां स्यात् सातलाख्यौंषधेऽपि च । चुल्ल्यां यथा-न दुष्येदन्तिकास्थितम् ।।४।।अलर्को धवलार्के स्याद् योगोन्मादितशुन्यपि। अल्यतेऽलर्कः । “निष्कतुरुष्क" (उ० २६) इति साधुः । धवल: श्वेतः । अर्को वृक्षविशेषः । तत्र यथा-कुर्यादर्कमलर्केण योगेन कर्मणादिना । उन्मादिते शुभि यथा-अलर्कविषवत्कालं प्राप्यावश्यं विकुर्वते विजातयः । अम्बिकोमापाण्डुमात्रोर्देवताभिदि मातरि । अम्बैव अम्बिका । उमायां यथा-योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिका केशरी। पाण्डुमातरि यथा-अम्बिकायामभूत्पाण्डुः । देवताभिद् द्वाविंशस्य जिनपतेरुपासिका कूष्माण्डिकानाम । तत्र यथा-भूयाद्बिम्बच्छिदेऽम्बिका। मातरि जनन्यां यथा-अभ्यषेचि शिरो येषामम्बिका चरणाम्बुभिः ।।५।। अन्धिका तु कैतवे स्यात्सर्षपीमिद्धयोरपि । अन्धयति अन्धिका। कैतवं द्यूतम् । सर्षपी ओषधिः । मिद्धं निद्रा। कैतवमिद्धयोर्यथाअन्धिकान्धाविधास्यन्ति कुतो धर्म नराधमाः । अम्लिका तिन्तिडीकाम्लोद्गारचाङ्गेरिकासु च । अम्लो रसोऽस्त्यस्यामम्लिका। तिन्तिडीका चिञ्चा। तत्र यथा-गुडूची कोमलाम्लिका । अम्लोद्गारश्चाङ्केरिका च ओषध्यौ ॥६॥ आलोको दर्शने बन्दियो (भा) * प्र० अलर्को नृपे श्वेता रोगोन्मादितशून्यपि ।