________________
(२)
अनेकार्थसंग्रहः सटीकः
शोलेज्नूको गतजन्मन्यंशुकं श्लक्ष्णवाससि । उत्तरीये वस्त्रमात्रेऽप्यलकाचूर्णकुन्तलाः ॥३॥ अलका तु कुबेरस्य नगर्यामन्तिकं पुनः ।
पार्वेऽन्तिका तु चुल्ल्यां स्यात्सातलाख्यौषधेऽपि च ॥४॥ पुंक्लीबः । रणे युद्धे यथा-सहस्रगोरिवानीकं दुःसहं भवतः परैः । सैन्ये चम्वां यथा-तस्यानीकैविसर्पद्भिरपरान्तजयोद्यतैः । अलीकमप्रिये भाले वितथे । अल्यते वार्यते भूष्यते वा अलीकम् (अलिकमपि) । “स्यमि कषि” इति ईकः । सर्वेषु यथा-ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति । अनू कमन्वये । शीले। अन्वव्यति समवैति अनूकम् । अचि न्यवादित्वात् कत्वम् । द्वयोर्यथावरस्यानूकवित्तानि प्रेक्ष्य कन्या प्रदीयते ।।२।। अनूको गतजन्मनि । गतजन्मापरिणतवया यथा-स्पृशन्ति शूकयानूकं नो कामिन्यः सयौवनाः । अंशुकं लक्ष्णवाससि । उत्तरीये वस्त्रमात्रेऽपि । अश्नुते अंशुकम् । “कञ्चुकांशुक” (उ० ५७) इति साधुः । लक्ष्णवाससि यथा-श्वासाः संवृततारहाररुचयः सम्भिन्नचीनांशुकाः । उत्तरीये यथा-नवनखपदमङ्ग गोपयस्यंशुकेन । वस्त्रमात्रे यथाशुक्लांशुकोपरिचितानि निरन्तराभिर्वेश्मानि रश्मिविततानि नराधिपानाम् । अलकाचूर्णकुन्तला: । अल्यन्ते अलकाः । “दु क न" इति अकः । पुंक्लीबः । प्रायो भूम्नि यथा-विलुलितालकसंहति-- रामृशन् मृगदृशां श्रमवारि ललाटजम् ॥३।। अलका तु कुबेरस्य नगर्याम । यथा-गन्तव्या ते वसतिरलकानाम यक्षेश्वराणां । अन्तिकं पुनः । पार्वे । अन्तोऽस्ति अस्य अन्तिकम् । “अतो