________________
4888
60
ㄣˋ
॥ अथ तृतीयः काण्डः ॥
85
66 8885
अणुको निपुणेऽल्पे चाशोकौ कङ्कल्लिवञ्जुलौ । निः शोकपारदौ चाऽप्यशोका तु कटुरोहिणी ॥ १॥ अभीको निर्भये कम्रेऽप्यनीकं रणसैन्ययोः । अलीकमप्रिये भाले वितथेऽनूकमन्वये ॥२॥
अर्हम् । अथ तृतीयं त्रिस्वरकाण्डमारभ्यते । तत्रादौं कान्ताः । अगुको निपुणेऽल्पे च । निपुणोऽणुरणुकः । "तनुपुत्राणुवृहती" ७-३-२३ । इति कः । अणुप्रकारो वा " कोऽण्वादेः " ७-२-७६ । इति कः । वाच्यलिङ्गः । द्वयोर्यथा - पर्याणमश्वेष्वणुका विदन्ति । अशोकौ कंकेल्लिवञ्जुलौ । निः शोकपारदौ चापि । न शवति अशोकः । " भीणशलि" ( उणादि २१ ) इति कः । नास्ति शोकोऽस्येति वा । निःशोके वाच्यलिङ्गः । कङ्कल्लौ निःशोके च यथा - वरसहकार (वरसहायः) करञ्जकवीर ( वीरनामा तरुः अन्यत्र वीरवलः) तशेऽशोकमदनपुन्नागसर्वद्रुममयराजन् कथमसि न बिभितकः क्वापि । वञ्जुलो वेतसः पारदः सूतः । तत्र क्लीबे इत्यन्यः । अशोका तु कटुरोहिणी । कटुरोहिणी ओषधिः || १ || अभीको निर्भये कम्रेऽपि । न विद्यते भीरस्य अभीकः । " शेषाद्वा" ७-३ - १७५ । इति कच् । अभिकामयते वा । “अभेरीश्च वा” ७-१-१८९ । इति कः । निर्भये वाच्यलिङ्गः । तत्र यथा—मेदस्विनः सरभसोपगतान भीकान् । कम्रे कामुके यथाअभीकपीतान्तिकधूसरेभ्यो गर्भस्थताम्बूलरसारुणेभ्यः । पश्य श्रियं कर्षति काञ्चनारं पञ्चालनारीदशनच्छदेभ्यः । अनीकं रणसैन्ययोः । अनिति अनेन अनीकम् । “स्यमि कषि " ( उ० ४६ ) इति ईक: ।