________________
सप्तमः काण्डः
(४६१)
-
॥ अथ चतुःस्वरो तत्र णान्तः ।।। अन्तरेणान्तर्विनार्थयोः ॥ अन्तरेति अन्तरेण । भ्रूणतृणगुणेति साधुः । द्वयोर्यथा-तत्तं निहंतुमवनी दिवमंतरेण त्वामंतरेण नहि संप्रति कश्चिदीशः ।
॥ अथ तान्तः ॥ अहोबतानुकम्पायां खेदामन्त्रणयोरपि ॥६०॥ अहोपूर्वात् बनतेः शरीति किति ते यमिरमीति न लोपे अहोबत । अनुकम्पायां खेदे च यथा-अहो बत महत् कष्टं चक्षुष्मानपि याचते । अदृष्टमुखभंगस्य युक्तमंधस्य याचितुम् ॥ आमन्त्रणे यथा-सुराः समभ्यर्थयितार एते कार्य त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्रमहोबतासि स्पृहणीयवीर्यः ॥
एषां चाव्ययानां अर्थकथनमुपलक्षणमात्रम् । अन्यथा भूयांसोऽप्यर्थाः सन्ति । यदाहुः-निपाताश्चोपसर्गाश्च धातवश्चति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायामनेकार्थकैरवाकरकौमुदीत्यभिधानायां स्वोपज्ञानेकार्थसंग्रहटीकायामनेकार्थशेषाव्ययकांडः सप्तमः समाप्तः ।। ७ ।।