________________
॥ प्रशस्तिः
॥
श्रीहेमसरिशिष्येण श्रीमन्महेन्द्रनरिणा। भक्तिनिष्ठेन टीकेयं तन्नाम्नैव प्रतिष्ठिता ॥ १॥ सम्यगज्ञाननिधिगुणैरनवधिः श्रीहेमचन्द्रप्रभोः । ग्रन्थे व्याकृतिकौशलं विलसति कास्मादृशां तादृशम् । व्याख्यामः स्म तथापि तं पुनरिदं नाश्चर्यमन्तर्मनः तस्याजसमपि स्थितस्य हि वयं व्याख्यामनुब्रुमहे ॥ २ ॥ यल्लक्ष्यं स्मृतिगोचरं समभवदृष्टं च शास्त्रान्तरे तत्सर्व समदर्शि किन्तु कतिचिन्नो दृष्टलक्ष्याः क्वचित् । अभ्यूह्यं स्वयमेव तेषु सुमुखैः शब्देषु लक्ष्यं बुधैः यस्मात्सम्प्रति तुच्छकश्मलधियां ज्ञानं कुतः सर्वतः ॥३॥ एकत्रापि कृताभिधेयविषये व्युत्पत्तिरर्थान्तरे कर्तव्यास्वयमेव दर्शितदिशानिर्वेदवन्ध्यर्बुधैः । वर्णाधक्रमवर्णनं न च कृतं तच्चापि कार्य स्वयं
यत्कृत्स्नप्रतिपादने न विवृतिः कामं वरीद्धयते ॥४॥ परिपूर्णा चेयमनेकार्थसंग्रहटीका अनेकार्थकैरवाकरकौमुदीत्यभिधानेति ॥