________________
(४६०) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
अन्ततोऽवयवोत्प्रेक्षापञ्चम्यर्थेषु शासने। पुरतोऽग्राद्ययोः पूर्वेद्युपूर्वाणप्रभातयोः ॥ ५९॥ अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः ॥ अहो बतानुकम्पायां खेदामन्त्रणयोरपि ॥ ६० ॥ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहेऽव्ययशब्दकाण्डः
सप्तमः , समाप्तः ॥९॥
शुभं भवतु । कल्याणमस्तु ।। अग्रतः आद्यादित्वात्तस् ।। प्रथमे यथा-अग्रजन्माग्रतःसृष्टः । अग्रे यथाअग्रतो बाहुपाशेन केशपाशेन पृष्ठतः । पार्वतः कर्णपाशेन सर्वतो बन्धनं हि सा ।। अन्ततोऽवयवोत्प्रेक्षापंचम्यर्थेषु शासने । अन्ते अन्ततः । आद्यादित्वात्तस् ॥ पंचम्यर्थो हेतुः । शासनं शिक्षा । चतुर्वपि यथा-किंचिदप्यधीष्व अन्ततः प्रज्ञां प्राप्स्यसि । पुरतोऽग्राद्ययोः। पृणाति पुरतः । विहायसिति बहुवचनात् साधुः ॥ अग्रे यथा-वक्त्रे नागरखण्डमस्तु पुरतः प्रेमाकुला कुन्तली । आये यथा-भोजने पुरतः पुत्रः संग्रामे पश्चिमः सदा। पूइँगुपूर्वाहप्रभातयोः। पूर्वस्मिन्नहनि पूर्वेयुः । परापरेत्येघुस् । द्वयोर्यथा-पूर्वेद्युर्वितरंति सन्ततमहो दानं निदानं श्रियाम् ।।५९॥
॥ अथ हान्ताः ॥ अहहेत्यद्भुते खेदे । अहपूर्वाज्जहातेः क्वचिदिति डे अहह । अद्भुते यथा-अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णोभूत्तेजस्तदकृतकथामप्यमदनाम् ।। मुनेरत्रे नेत्राद्यदजनि पुनज्योतिरहह प्रतेने तेनेदं मदनमयमेतत्रिभुवनम् । खेदे यथा-मुदा यत्र प्राणांस्तृणमिव परार्थप्रणयिनस्त्यजन्तो लज्जन्ते कियदिति धिया तयुगमगात् । तृणप्राणप्रायं त्यजति न जनो यत्र समये वयं जातास्तत्रेत्यहह कृपणं जीवितमिदम् ।।
१. खेदामन्त्रणयोरपि । अनपयति प्रभाते क्षणं क्षणं क्षणार्थके ।