SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सप्तमः काण्डः (४५९ ॥ अथ मान्ताः ॥ दिनमध्ये प्रतिदिने साम्प्रतं तूचितेऽधुना । समयानिकषे चान्तनिकटे चाऽन्तरा पुनः ॥ ५७ ॥ विनार्थे सन्निधौ मध्येऽभितोऽभिमुखकात्ययोः। समीपोभयतः शीघेष्वग्रतः प्रथमाग्रयोः ॥ ५८ ।। क्वचिदित्यणि बाहुलकान्मान्तत्वम् ॥ द्वयोर्यथा-तन्मैथिली प्रत्याहर्तुमुपक्रमः परमितो नः साम्प्रतं साम्प्रतम् ।। ॥अथ यान्ताः ॥ समया निकषे चान्तनिकटे च । समेतेर्निकपेश्च समिण निकषिभ्यामा इत्याप्रत्यये समया निकषा लाघवाथ षान्तस्यापि यान्तेषु पाठः । द्वयोर्यथा गुणदोषाभिव्यक्तिर्वचसां संजायते सतः समया । प्रादुःषन्ति विशेषा हेम्नां निकषोपलं निकषा ॥ ॥अथ रान्ताः ॥ अन्तरा पुनः । विनार्थे सन्निधौ मध्ये । अन्तौ राति डिदित्याः अन्तरा ॥५७॥ विनार्थे यथा-न सुख धर्ममन्तरा । सन्निधौ मध्ये च यथागतासुरन्तरादन्तीव रण्डक इवाभवत् । ॥ अथ सान्ताः ॥ अभितोऽभिमुखकात्ययोः । समीपोभयतःशी षु । उभयस्मात् अभितः। पयभेः सर्वो भय इति तस् । अभितः स्यति वा क्विपू । अभिमुखकाययोर्यथा-याञ्चादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि सदशग्रीवः कथं वर्ण्यते ॥ शीघ्रसमीपयो यथाअव्याकुला पटमयान्यभितो वितत्य । उभयतोऽर्थे यथा-भेजेऽभितः पातुकसिद्धसिन्धोरभूतपूर्वी रुचरम्बुराशेः । अग्रतः प्रथामाग्रयोः । अप्रै
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy