________________
(४५८)
अनेकार्यसंग्रहः सटीक :: द्वितीयो विभागः
विकल्पेऽतिशये चापि पुरस्तात् प्रथमेग्रतः। पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः ॥ ५५ ॥ पौनःपुन्ये सन्तते चावश्यं निश्चयनित्ययोः ।
इदानीं साम्प्रतं वाक्यालङ्कारे तदिनं पुनः ॥ ५६ ॥ ताकशय्याम् । पुरस्तात् प्रथमेऽप्रतः । पूर्वस्यां च पुरार्थे च । पूर्वस्यां दिशि देशे काले वा पुरस्तात् । पूर्वापराधरेभ्यस्ताति पुरादेशः । पृणाति वा संश्वद्वेहदिति साधुः। प्रथमे यथा-अनुचितमिति मत्वा तत्पुरस्तात् निरस्तम् । अग्रतो यथा-रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् । पूर्वस्यां दिशि यथा-पुरस्तादुदयः पश्चात्तथैवास्तमयो ध्रुवः । व्यभिचारो न चेदस्ति तत्र का परिवेद(देव)ना । पुरार्थो भविष्यदासन्नचिरातीतप्रबन्धास्तेषु तद्वदुदाहरणं द्रष्टव्यम् ॥ ____ अभीक्ष्णं शीघ्रप्रकर्षयोः। पौनःपुन्ये सन्तते च । अभीक्षते भ्रूणतृणेति गे बाहुलकान्मान्तत्वे च अभीक्ष्णम् । शीघ्रप्रकर्ष योर्यथा-तक्ष्णोतीव तथान्योऽभीक्ष्णन्तीक्ष्णक्षरक्षारैः ॥५५॥ सन्ततपौन:पुन्ययोर्यथा-अभीक्ष्णमक्षुण्णतयातिदुर्गमम् । अवश्यं निश्चयनित्ययोः। अवश्यायतेर्गमिजमीति बहुवचनात् डिदमि अवश्यम् । निश्चये यथा-अवश्यं यातारश्चिरतरमुषित्वाऽपि विषयाः । नित्यं शास्वतमनवरतं च । शास्वते यथा-अवश्यं पृथ्वीयं क्षितिपतिसहस्राणि तु ययुः । अनवरते यथा-अवश्यं कर्तव्यं शयनमशनं च द्वयमपि । इदानीं साम्पतं वाक्यालङ्कारे । अस्मिन् काले इदानीं सदाधुनेति साधुः । साम्प्रतमित्यस्यार्थे यथा-इदानीमस्माकं पटुतरविवेकाननजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ वाक्यालङ्कारे यथा-इदानीं भो दानी वितरसि कथं न त्वमधुना । तदिनं पुनः । दिनमध्ये प्रतिदिने । तञ्च तद्दिनं च तदिनम् ॥ बाहुलकान्मान्तत्वम् द्वयोर्यथा-देवार्चन्ते तदिनं कुर्यात् ॥५६॥ साम्प्रतं तूचितेऽधुना । सम्प्रति युज्यते साम्प्रतम् ।