________________
सप्तमः काण्डः .
ननु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि । अपष्टु चारों निर्दोषे किमुत प्रश्नवादयोः ॥ ५४ ॥
(४.५७)
गर्दभी । ही हो विस्मयहास्ययोः ।। ५३ ।। जहातेः किपि ईत्वे च ही । हियं जहाति ही । द्वयोर्यथा - ही ही सम्पन्ना मे प्रियवयस्यमनोरथाः ॥५३॥
|| अथ त्रिस्वरास्तत्र चान्ताः ॥
ननु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि । ननु चिनोति ननु च कचिदिति डः । प्रदने यथा - ननु च विप्रतिषिद्धमेतत् । दुष्टोक्तौ यथाननु च द्वयेषामित्यपशब्दोऽयम् । सम्यग्वादे यथा - ननु च एवमेवैतत् । स्तुतौ यथा - ननु च कोऽस्य समः सुकृती भुवि ।
।। अथ ठान्ताः ॥
अपष्ठु चारौ निर्दोषे । अपतिष्ठति अपटु । दुःस्वपवनिभ्यः स्थ इति किदुः । भीरुष्ठानादित्वात्पत्वम् । चारु सगुणं । निर्दोषो दोषहीनम् । द्वयोर्यथा - तव धर्मराज इति नाम कथमिदमपष्ठु पव्यते । भौमादिनमभिदधत्यथवा भृशमप्रशस्तमपि मंगलं जनाः ॥
॥ अथ तान्तौ ॥
किमुत प्रश्नवादयोः । विकल्पे अतिशये चापि । किम्पूर्वाद्वयतेः ते वृति किमुत । प्रश्ने यथा - प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले पाते वह्नित्वमद्य समेष्यसि । वादे यथा - नित्यः शब्दः किमुताऽनित्यः ॥ ५४ ॥ विकल्पे यथा - किम्वा विद्याधरोऽयं किमुत सुरपतिः । अतिशये यथा - यदास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमु