________________
(४५६) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
*अहा धिगर्थे शोके च करुणार्थविषादपोः। अह क्षेपे नियोगे चाप्याहो प्रश्न विचारयोः ॥५२॥ सह सम्बन्धसादृश्ययोगपघसमृद्धिषु ।
साकल्ये विद्यमाने च । हीही विस्मय हास्ययोः ॥५३॥ मेथते म्मिथि रंजिति कित्यसि मिथः। अन्योन्यस्मिन् यथा-मिथो विवदमानयोः । रहसि एकान्ते यथा-वक्तुं मिथः प्राक्रमतैनमेवम् ॥ ५१॥
॥ अथ हान्ताः ॥ अहा धिगर्थे शोके च करुणार्थविषादयोः । नञ्पूर्वाज्जहातेः किपि अहा । धिगर्थे यथा-अहा महापातकिनं भवन्तम् । शोकः स्थायीभावः । करुणो रसः । विषादो व्यभिचारीभावः । त्रिष्वपि यथा-देवी का जनकाधिराजतनयाऽहा जानकि क्कासि हा । अह क्षेपे नियोगे चापि । नञ् पूर्वाज्जहातेः कचिदिति डे अह । द्वयोर्यथा-विहितमथविधात्रा यत्तदेवोपयोज्यम् । आहो प्रश्न विचारयोः । आङ् पूर्वाज्जहोतेर्विचि आहो। प्रश्ने यथाआहो किमेषा सुतनुर्विरौति ।। विचारे यथा-किं तावत्सरसि सरोजमेतदारादाहोस्वित् मुखमवभासते युवत्याः ॥५२॥ सह सम्बन्धसादृश्ययोगपद्यसमृद्धिषु । साकल्ये विद्यमाने च । सहतेरवि सह । सम्बन्धे यथापण्डितैश्च विनीतैश्च धर्मज्ञैर्यशशालिभिः । तिष्ठेद्विबन्धनस्योऽपि न तु राज्यं खलैः सह ॥ पण्डितादिभिः सम्बन्धं बन्धनमपि श्रेयो न तु खलसम्बन्धं राज्यमपीत्यर्थः । सादृश्ये इवार्थे यथा-सिक्ता इवामृतजलेन मुहुर्जनानां क्लान्तिच्छिदा वनवनस्पतयस्तदानीम् । शाखाऽवसक्तवसनाsभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ कल्पद्रुमा इवेत्यर्थः । योगपद्ये तुल्ययोगे यथा- रघु शं वक्षसि तेन ताडितः पपात भूमौ सहसैनिकाश्रुभिः ॥ समृद्धौ यथा-समदं मद्राणां समृद्धिरित्यर्थः । साकल्ये यथा-सतृणमभ्यवहरति । विद्यमाने यथा-सहैव दशभिः पुत्रैः भारं वहति
* शनैः शनैश्चरे स्वैरे सहस्साहसतेजसोः ।