________________
सप्तमः काण्डः
(४५५)
पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे ॥ पञ्चम्यर्थे परिप्रश्ने तिरोन्तधौं तिरश्चि च ॥ ५० ॥ नोचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाशयोः ।
पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्य रहस्यपि ।। ५१ ।। त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य गुरु योगिनामपि । इतो यतश्च विभागवत् । पञ्चम्यर्थे नियमे च । अस्मादितः । यस्माद्यतः । विभागे यथा-इतो वसति केशवः पुरमितस्तदीयद्विषां यतो यतः पाण्डूरणो निवत्तते ततस्ततः प्रेषितलोललोचना ॥ ४९ ॥ पंचम्यर्थे यथा-इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । यतस्त्वया ज्ञानमशेषमाप्तं चैतन्यमुग्रादिव दीक्षितेन । नियमे यथा-इतः कुराज्यं नरकान्तमाहुः । नरकान्तमेव वा इत्यर्थः । यतो नियोगो बत बन्धनान्तः । बन्धनान्त एवेत्यर्थः । तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने । तस्मात्ततः । आदौ यथा-ततः प्रयाते वसुदेवसूनौ । आदौ गतेत्यर्थः । कथान्तरे यथा-श्रवणाततश्च क्रमेणैष सुतीक्ष्णादीनुपस्थाय महामुनीनित्यादि । पञ्चम्यर्थे यथा-ततो गृहीतन्तु मृगाङ्गनाभिः । परिप्रश्ने यथा-जाम्बवान् ततस्ततः । तिरोन्तधौ. तिरश्चि च । तरतेमिथिरंज्युषीति । (उ०९७१) किदसितिरः । अन्तौ यथा-पद्मयोनिस्तिरोदधे । तिरश्चि तिर्यगर्थे यथा-तिरो विवर्त्तितग्रीवम् ।। ५० ॥ नीचैः स्वैराल्पनीचेषु । निपूर्वादंचतेय॑भ्यामञ्चेरिति कैसिनलोपे। अच्च प्राग्दीर्घश्चेति दीर्घत्वे नीचैः । स्वैरे यथाचरति स्वैरिणी नीचैः । स्वैरं चरतीत्यर्थः । अल्पे यथा-नीचैर्वास्यत्युपजिगमिषोर्दै, वपूर्व: गिरिन्ते । नीचे यथा-उपपतिविनीचैः पश्चिमान्तेन चन्द्रः । प्रादुर्नामप्रकाशयोः । प्रपूर्वादतेरुद्यतीति उसि प्रादुः । नाम्नि नामधेये यथा-प्रादुर्भावाहरेर्दश । मत्स्यवादीनि दशनामानीत्यर्थः । प्रकाशे यथा-प्रादुःष्यात्क इव जितपुरः परेण । पुरोऽग्रे प्रथमे च स्यात् । पृणातेमिथि रंज्युषीति कित्यसि पुरः। अग्रे यथा-पुरः क्लिश्नाति सोमं हि सैहिकेयोऽसुरगुहां। प्रथमे यथा-यथा समस्तं तिमिरांशुक्रं तया पुरोपि रागाद्गलितं न लक्षितं । मिथोऽन्योन्यं रहस्यपि।