________________
(४५४) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
एवौपम्ये परिभव ईषदर्थे ऽवधारणे।। उषा रात्रौ तदन्ते च दोषा निशि निशामुखे ॥ ४८ ॥ मक्षु शीघ्र भृशे तत्त्वेऽतो हेतोरपदेशवत्
निर्देशे पञ्चम्यर्थे च इतो यतश्च विभागवत् ॥ ४९ ॥ आलम्बने यथा-दन्तावष्टम्भपातक्रमनमितबहिर्गर्त्तवद्गण्डभित्तिः । विज्ञाने यथा-अवगम्य कथीकृतं वपुः प्रिनबन्धोस्तव निष्फलोदयः । वियोगे यथा-कन्याऽवमुक्तनूपुरा । व्याप्तौ यथा-किमपैति रजोभिरौर्व रैरवकीर्णस्य मणेमहार्यता । शुद्धौ यथा-क्रीतं वैरिकुलात्त्वया किल दलत्कुन्दावदातं यशः ।। ४७ ॥ एवौपम्ये परिभव ईषदर्थे ऽवधारणे । एतेलटि खटीति (उ०५०५) वे एव ।
औपम्ये यथा-तवैव मे सन्तु सदापि सम्पदः । परिभवे यथा-बुद्धावाजितमपरेण काममाविष्कुर्वीत स्वगुणमपत्रपः क एव । ईषदर्थे यथा-किंचिदेव वदति स्म सस्मयः । अवधारणे यथा-वपुरेव तवाचष्टे भगवन् वीतरागताम् ।
॥ अथ षान्ताः ॥ : उषा रात्रौ तदन्ते च । ओषतेर्दिवि पुरीति (उ० ५९९) बहुवचनात् कित्याप्रत्यये उषा । द्वयोर्यथा--गतकेलिक्लमारामाः पव मानैरुषातनैः । दोषा निशि निशामुखे । दुष्यतेः समिक्षमीत्या प्रत्यये दोषा । द्वयोर्यथा-दोषामन्यं विदधति सुरतक्रीडायासश्रमशमपटवः ॥ ४८ ।। मक्षु शीघे मृशे तत्त्वे । मजतेः मस्जीष्यशिम्यः सुकिति सुकि मंक्षु । शोघ्रभृशयोयथा-मञ्जूदपाति परितः पटलैरलीनाम् । तत्त्वे यथा-वीक्षते किमपि मछु मुमुक्षुः ।
॥अथ सान्ताः ॥ . अतो हेतोरपदेशवृत् । निर्देशे पञ्चम्यर्थे च । एतस्मात् अतः । इतोतः कुत इति साधुः । त्रिष्वर्थेषु । हेतोरपदेशवदिति यथा हेतोरपदेशेवर्त्तते तथा । निर्देशे पञ्चम्यर्थे चेत्यर्थः । हेत्वपदेशे यथा-अतोऽत्र किंचिद्भवर्ती बहुक्षमाम् । निर्देशे यथा--अतोगतः सम्प्रति भानुरेषः । पञ्चम्यर्थे यथा