________________
सप्तमः काण्ड:
(४५३)
पुनरप्रथमे भेदे किल सम्भाव्यवार्तयोः ॥ हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ ४६ ।। जिज्ञासायामनुनये वाक्यालङ्करणेऽपि च ।
अवाऽऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ।। ४७ ॥ आलोके ते निपतति पुरा सावलिव्याकुला वा । चिरातीते यथा-विप्रं पुरापतगराडिव निर्जगार । प्रबन्धसातत्ये यथा-वसन्तीह पुरा छात्राः । सततं वसन्ति स्मेत्यर्थः ।। ४५ ॥ पुनरपथमे भेदे। पुनाते पूसन्यमिभ्य इत्यरिप्रत्यये पुनादेशे पुनः । अप्रथमे द्वितीयवेलायां यथा-अनुग्रहीतुं पुनरिन्दुवंशं श्रीभीमदेवः किल भीम एव । भेदे विशेषे यथा-किं पुनः क्लप्तसन्धानपुलिन्द्रकृतसन्निधिः ।
॥ अथ लान्तौ ।। किल सम्भाव्यवार्तयाः । हेत्वरुच्योरलोके च । किलते म्युपान्तेति के किल । सम्भाव्ये यथा-लघूकरिष्यन्नति भारभङ्गुराममूकिल त्वं त्रिदिवादवातरः । वार्तायां यथा-षट् रसाः किल वैद्येषु भरतेऽष्टौ नवापि ते । हेतौ यथा-क्षतात्किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः । अरुचौ यथा-तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिनं विद्यते । अलीके यथाकथमपि परिवृत्तानिद्रयान्ध्रा किल स्त्री मुकुलितनयनैव श्लिष्यति प्राणनाथम् । खलु वीप्सानिषेधयोः ॥ ४६ ॥ जिज्ञासायामनुनये वाक्यालङ्करणेऽपि च । खलते मृतृत्सरी । बहुवचनादुप्रत्यये खलु । वीप्सायां यथाविद्वद्भिः खलु कर्तव्यः शास्त्रेऽभ्यासः समाहितैः । शास्त्रे शास्त्रे इत्यर्थः । निषेधे यथा-निर्धारितेऽर्थे लेखेन खलूक्त्वा खलुवाचिकम् ॥४६॥ जिज्ञासायां यथाकः खलु युवा धन्योऽधरं धास्यति । अनुनये यथा—न खलु न खलु मुग्धे साहसं कार्यमेतत् । वाक्यालङ्करणे यथा-योषितामतितरांनखलूनं गात्रमुज्वलतया नखळूनम् ।
॥अथ वान्तौ ॥ अवाऽऽलम्बनविज्ञान वियोगव्याप्तिशुद्धिषु । अवतेरवि अवः ।