________________
(४५२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
परि व्याधावुपरमे वर्जने लक्षणादिषु । आलिङ्गने शोके च पूजायां दोपकीर्तने ॥४४॥ भूषणे सर्वतोभावे व्याप्ती निवसनेऽपि च ।
पुरा भविष्यदासन्ने चिरातीतप्रवन्धयोः ।। ४५ ॥ “राजम् । अनाभिमुख्येऽपि यथा-अनुनयमगृहीत्वा व्याजसुप्तापराची। प्राधान्ये यथा-पराणयन्ति मां नाथ परामानन्दसम्पदम् ! विमोक्षे यथा-पराकीर्णैर्बाणैदिशि दिशि बभूवांधतमसम् । प्रातिलोम्ये यथा-परावृत्तं सैन्यं हतविधिवशात्तावकमिदम् । गतौ यथा-पुत्रं परासुमनुगंतुमनाः सदारः । अत्र हि परागता असवो यस्येत्यर्थः । धर्षणे तिरस्कारे यथा-परैरपर्यासितवीर्यसंपदां पराभवोऽप्युत्सव एव मानिनाम् । हिंसायां यथा-परासनं यो विदधे परषाम् । भृशार्थे यथा-मधुपराजिपराजितमानिनी । विक्रमे यथा-पराक्रमः परिभवे वैयात्यं सुरतेष्विव॥४३॥ परिव्याधावुपरमे वजने लक्षणादिषु । आलिङ्गने शोके च पूजायां दोषकीत्तने । भूषणे सवतो भावे व्याप्तौ निवसनेऽपि च । पृणातेः स्वरेभ्य इरीति प्रत्यये परि । व्याधौ यथा-कदन्नं परितापाय । उपरमे यथा-परिणतिमिति रात्रेमगिधा माधवाप । वर्जने यथा-परित्रिगत व्यष्टादेवः । लक्षणे यथावृक्षं परिविद्योतते विद्युत् । आदिशब्दाद्वीप्सेत्थंभूतभागेषु । यथा-वृक्षं वृक्षं परिसेकः । साधुश्चत्रोमातरम्प्रति । यदत्र मां परिस्यात्तद्दीयताम् । आलिङ्गने यथाअशिथिलपरिरम्मैदत्तसम्बाहनानि । शोके यथा-प्राणाः स्वयं व्रजत किं परिदेवितेन । पूजायां यथा-ग्रहीतुमार्षा(या)-परिचयया मुहुर्महानुभावा हि नितान्तमर्थिनः । दोषकीर्तने यथा-सत्यव्रतस्य च सतस्तनयं वनाय प्रस्थापयन्न परिवादपदं भवामि ॥ ४४ ॥ भूषणे यथा-भज सुवर्णपरिष्कृतमासनम् । सर्वतो भावे यथा-परितस्तमांसि परितस्तरिरे। व्याप्तौ यथा -जलनिविडितवस्त्रव्यक्तनिम्नोन्नताभिः । परिगततटभूमिस्नानमात्रोत्थिताभिः । निवसने यथा-हलघरपरिधानश्यामलैरम्बुवाहैः । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः । पुरत् अग्रगमने दिवि पुरीत्या प्रत्यये पुरा । भविष्यदासन्ने यथा