________________
सप्तमः काण्डः
सम्भ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । ऊरर्युरुवद्री विस्तारेऽङ्गीकृतावपि ॥ ४२ ॥ पराभिमुख्ये प्राधान्ये विमोक्ष्यप्रतिलोम्ययोः । गतिघर्षणाि भृशार्थे विक्रमेऽपिच ॥ ४३ ॥
(४५१).
सामि । अर्द्ध यथा - अर्द्धमुन्मिषति पंकजाकरे सामिकैरववने निमीलति । जुगुप्सिते यथा—तत्सामि यजतेऽध्वर्युर्यद्याज्यां ते वषट् कृतम् ।
॥ अथ यान्तौ ॥
अयि प्रश्नेऽनुनये स्यात् । एतेः स्वरेभ्य इरीति, इ प्रत्यये अयि । प्रश्ने यथा—अयि स्वशक्त्या तपसि प्रवर्तते । अनुनये यथा - अयि निमिकुलजाते क्षत्रिये महानि मूलं परपरिभवभाषां सम्वृणु वीडितोऽस्मि । अये क्रोधविषादयोः । सम्भ्रमे स्मरणे च । अयीत्यस्य बाहुलकादेत्वे अये । क्रोधविषादयो यथा - अये वेलाहेलातुलितकुलशैले जलनिधौ कुतो वारामोघं वद जलदमोघं - वितरति ॥ ४१ ॥ संभ्रमे यथा - अये केयं धन्या धवलगृहवातायनतलात्तुलाकोटिक्वाणैः कुसुमधनुषं जागरयति । स्मरणे यथा - अये रामो दाशरथिः । ॥ अथ रान्ताः ॥
अन्तरन्ते स्वीकार मध्ययोः । अमतेः पूसन्यमिभ्य इत्यरि अन्तादे च अन्तर । अन्ते यथा - यौवनान्तरुपतिष्ठति जरा । स्वीकारे यथा - अन्तर्हत्वा श्येनो मूषिकां गतः । परिगृह्येत्यर्थः । मध्ये यथा - अन्तर्वापश्चिरमनुचरो राजराजस्य दध्यौ । उररुपदूरी विस्तारेङ्गीकृतावपि । रीडू श्रवणे उरः । पूर्वात् किपि पृषोदरादित्वात् सलं पे उररी । एवमुरुपूर्वात् उरुरी | अवति विपि मव्यवीति । ऊट उस्तं रीयते उरा । द्वयोर्यथा- कोपदीप्तमुररीकृतधैर्यम् । एवमु रुरीत्यपि । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ४२ ॥ पराभिमुख्ये प्राधान्ये विमोक्ष्यप्रतिलोम्ययोः । गतिवर्षणहिंसासु भृशार्थे विक्रमेऽपि च । पृणोतेर्बाहुलकात् आप्रत्यये परा । आभिमुख्ये यथा - परापतन्तम्पतगाधि