________________
(४५०) अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
किमु सम्भावनाशं विमर्श जोषं मुखे स्तुतौ । मौनलंघनयोश्चापि नाम प्राकाश्यकुत्सयोः ॥ ३९ ॥ सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि । नूनं त निश्चिते च प्राध्वं नानुकूलयोः॥ ४० ॥ भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्धे जुगुप्सिते ।
अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः ॥४१॥ माभावे किमु । सम्भावनायां यथा-क्षुभ्यन्ति प्रसभमहो विनाऽपि हेतोलीलाभिः किमु सति कारणे रमण्यः । विमर्शे यथा-किं नन्दी कि मुरारिः किमु रतिरमणः । जोषं सुखे स्तुतौ। मौनलङ्घनयोश्चापि । जुषेर्बाहुलकादमि जोषं । सुखे यथासन्तोषतंसोऽपि पुपोष जोषम् । स्तुतौ यथा-जोषं सरोषेऽपि गुरौ विधेयं । मौने यथा-इति जोषमवस्थितं द्विषः प्रणधिं गामभिधाय सात्यकिः । लङ्घने अतिक्रमे यथा-जोषं सदोषेऽपि गुरौ न कुर्यात् । नाम प्राकाश्यकुत्सयोः। सम्भाव्याभ्युपगमयोरलीके विस्मये क्रुधि । नमेञि नाम । प्राकाश्ये यथाहिमालयो नाम नगाधिराजः। कुत्सायां यथा-को नाम वह्निनौपम्यं कुर्वीत शशलक्ष्मणः ॥ ३९॥ सम्भाव्ये यथा-कथं नाम समेष्यसि ।अभ्युपगमे यथाभानु नाम सदृशां दशनां कः पाटलो धवलगण्डतलेषु । अलीके यथा-परिश्रमं नाम विनीय वक्षणम् । विस्मये यथा-को नामायमपूर्वनाटकविधियं शिक्षितो दुर्जनः। क्रुधि यथा-ममापि नाम रावणस्य परैः परिभवः । नूनं तर्के निश्चिते च । नुवतेनशिनूम्यामित्यमि नूनादेशे च नूनं । तर्के यथा-नूनं तस्या प्रबलरुदितोच्छूननेत्रं प्रियायाः । निश्चिते यथा-नूनमस्तंगतो वादी सिद्धसेनदिवाकरः । प्राध्वं नानुकूलयोः। प्रापूर्वकाद्दधाते बाहुलकादमि वान्तत्वे च प्राध्वम् । नर्मणि यथा-प्राध्वमध्वनि मुधा विदधासि । अनुकूले यथा-पाणौ कृत्य रिपोर्लक्ष्मी प्राध्वं कृत्यापरः परम् ॥ ४० ॥ भृशं प्रकर्षेऽत्यर्थे च । विभत्र्तेः कृवृभृवनिभ्यः किदिति शे वा बाहुलकान्मान्तत्वे च भृशम् । द्वयोर्यथा-अस्मद्विना मा भृशमुन्मनी भूः । सामि त्वर्षे जुगुप्सिते । स्यते नीसावृञ्चिति मौ