________________
सप्तमः काण्डः
(४४९)
-
अलङ्करणसामर्थे पर्याप्तिष्यवधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्तयोः ॥ ३७॥ कथं प्रश्ने प्रकारार्थे संभ्रमे सम्भवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि ॥ ३८ ॥
अमावास्या । अलं निवारणे अलङ्करणसामर्थं पर्याप्तिष्ववधारणे । अलीभूषणादावित्यतः । सोरेतेरमिति (उ० ९३४) बाहुलकाद मे अलं । निवारणे यथा-अलं महीपाल तव श्रमेण ॥ ३६ ॥ अलङ्करणे यथा-सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः । सामर्थ्य यथा-ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् । पर्याप्तौ परिपूर्णतायां यथा-तस्यालमेषा क्षुधितस्य तृप्त्यै, प्रदिष्टकाला परमेश्वरेण, उपस्थिता शोणितपारणा मे । परिपूर्णपारणेत्यर्थः । अवधारणे यथा-तदलममलं काव्यं कर्तुं यतेत समाहितः । एवं प्रकारेङ्गीकारेऽवधारणसमन्वयोः । एतेर्लटि खटी (उ० ५०५) ति वे बाहुलकात् मांतत्वे च एवं । प्रकारे यथा-एवमालिनिगृहीतसाध्वसं शङ्करे रहसि सेव्यतामिति । अङ्गीकारे यथा-एवमस्तु कथया किमन्यया । अवधारणे यथाअहार्यमेवं मृगनाभिपत्रम् । अहार्यमेवेत्यर्थः । समत्वे तुल्यत्वे यथा-रोलंबगवलव्यालतमालमलिनात्विषः। वृष्टिं व्यभिचरन्तीह नैवं प्रायाः पयोमुचः ॥ न ईदृशा इत्यर्थः॥३७॥ कथं प्रश्ने प्रकारार्थे संभ्रमे सम्भवेऽपि च । केन प्रकारेण कथं । कथमित्थमिति (७-२-१०३) साधुः । प्रश्ने यथा-अवस्तुनिबन्धपरे कथं नु ते करोयमाबद्धविवाहकौतुकः । करेण शम्भोर्बलयी कृताहिना सहिष्यते तत्प्रथमावलंबनम् । प्रकारार्थे यथा-कथंकारमनालम्बा कीर्त्तिामधिरोहति। सम्भ्रमे यथा-कथं समायाता एव तातपादाः । सम्भवे यथा-कथं स एवार्यतापसः । काममस्यानुगमे प्रकामेऽनुमतावपि । कामयतेर्बाहुलकादमि कामं । त्रिष्वपि यथा-कामं सन्तु दृढं कठोरहृदयो रामोस्मि सर्वसहे ॥३८॥ किमु सम्भावनायां विमर्शे । उडूशब्दे किम्पूर्वात् विपि । बाहुलकात्तांग