SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ (४४८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥ ३५ ॥ अभि वीप्सालक्षणयोरित्थम्भूताभिमुख्ययोः । स्यादमा सन्निधानार्थे सहार्थेऽलं निवारणे ॥ ३६ ।। उपरवार्यामिव द्रोणो मिलत्यागाबलेऽधिकं । हीने यथा-उपगङ्गामिवापगाः । सादृश्ये यथा-जातास्तदूर्वोरुपमानबाह्याः। प्रतियत्ने यथा-विधाय सहजाशौचमुपस्कारैर्नवं नवम् ॥३४।। तद्योगे यथा- रोगोपसृष्टतनुदुर्वसति मुमुक्षुः । व्याप्तौ यथा-उपकीर्णं वनं पुष्पैः । पूजायां यथा-गिरिशमुपचचार प्रत्यहं सा सुकेशी । शक्तौ यथ-उपचितेषु परेष्वसमर्थतां व्रजति कालवशाबलवानपि । आरम्भे यथा-इदमीढगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः । दाने यथा-देवोपहाव्याजेन यज्ञव्याजेन येऽथवा । दाक्षिण्ये यथा-विनोपरोधात् स्वहितेच्छयैव महीपतिर्यस्य वचश्चकार । आचार्यकरणे यथा-उपदिशति कामिनीनां यौवनमद एव ललितानि । दोषाख्याने यथा-इति स्वहस्तालिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः । अत्यये यथा-उपरतसर्वेच्छो वा यो वा सम्पन्न. सर्वेच्छः ॥ ३५॥ ॥ अथ भान्ताः ॥ अभि वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः। अभुइ शब्दे इत्यतो अम्भि कुण्ठीति इ (उ० ६१४) प्रत्यये न लोपे च अभि । वीप्सायां यथा-वृक्षं वृक्षमभिसेकः । लक्षणे यथा-मुदा विकाशं यतिमभ्युपेयुषी । इत्थंभूते यथाअभिदिग्विजयं साधुरुपतस्थे शरत् क्षणात् । आभिमुख्ये यथा-प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् । ॥ अथ मान्ताः ॥ स्यादमा संनिधानार्थे सहार्थे । नञ् पूर्बात् मातेर्डिदित्याकारे अमा । "द्वयोर्यथा-अमा सह सन्निधाने वा वसतः सूर्याचन्द्रमसावस्यामिति
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy