________________
सप्तम काण्डः
(४४७)
विपर्यये वियोगे च निर्देशे विकृतावपि ।। अपि सम्भावनाशङ्कागईणामु समुच्चये ॥ ३३ ॥ प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च ।। उपाऽऽसन्ने ऽधिके हीने सादृश्यप्रतियत्नयोः ॥ ३४ ॥
पहरति कविः । अपकृष्टे यथा-परापवादसस्येभ्यो गां चरन्तीन्निवारय । वर्जने यथा-आसिन्धोः शाद्वलान्यासन्नास्मरात्पर्यपोषरात् । मुदि यथा-रोधांसि धीरमपचस्करिरे महोक्षाः । ३२ ॥ विपर्यये यथा-चतुर्थोपायसाध्ये तु शत्रौ सांत्वमपक्रिया । वियोगे यथा-कान्ताऽपयुक्तः सुतरां मुमूर्छ । निर्देशे यथाअपदिश्य दिवं गतां प्रियां विधिना तेन दशाहतः परे विदुषा विधयः समर्थिताः । विकृतौ यथा-अपकुळत्यव्यक्तं क्षुद्रं कुर्वन्तु किं महान्तोऽपि । अपि सम्भावनाशङ्कागईणासु समुच्चये। प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च । आप्नोतेः सुभृभ्यद्यापिदम्भीति ॥ इ प्रत्यये, अपादेशे च अपि । सम्भाबनायां यथा-अपि स दिवसः किं स्याद् यस्मिन् प्रियामुखपङ्कजे मधु मधुकरीवाऽस्मदृष्टिर्विकासिनि पास्यति । शंकायां यथा-अप्याज्ञया शासितुरात्मना वा प्राप्तासि सम्भावयितुं वनान्माम् । अत्राहमेवं शंके मां संभावयितुं प्राप्तोऽसि इत्यर्थः । गहणायां यथा-अपि तत्रभवान् सावधं सेवते । समुच्चये यथा-साऽपिगता सोऽपि गतस्तदपि गतं ॥ ३३ ॥ प्रश्ने यथा-अपीदमेवं परिहास इत्युमामपृच्छदव्यजितहर्षलक्षणः। युक्तानि सम्बद्धानि पदानि तेषामर्थायुक्तपदार्थास्तत्र यथा-ये पक्षिणः प्रथममम्बुनिधिं गतास्ते येऽपीन्द्रपाणितुलितायुधळूनपक्षाः। ते जग्मुरद्रिपतयः सरसीविंगाढुंमाक्षिप्रकेतुकुथसैन्यगजच्छलेन ॥ कामचारक्रियासु यथा-भवानपि छत्रं गृह्णातु । उपाऽऽसन्नेऽधिके हीने सादृश्यप्रतियत्नयोः । तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च । उम्भतेरुभ्यवेलु क्वेति (उ० ३०३) पे उप। आसन्ने यथा-उपपरिसरं गोदावर्याः परित्यजताध्वगाः । अधिके यथा