________________
(४४६) अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
नन्वाक्षेपे परिभश्ने प्रत्युक्ताऽवधारणे। वाक्यारम्भेष्यनुनयामन्त्रणानुज्ञयोरपि ॥ ३१ ॥ नाना विनोभयोनेकार्थेषु स्थाने तु कारणे। . युक्ते साम्येप्यप स्तेयेऽपकृष्टे वजने मुदि ॥ ३२ ॥
प्रत्युक्ताऽवधारणे। वाक्यारम्भेप्यनुनयामन्त्रणानुज्ञयोरपि । नञ् पूर्वात् नौतेः क्विपि बाहुलकात्तागमाभावे ननु । आक्षेपे यथा-नमस्यामो देवान्ननु हत. विधेस्तेपि वशगाः । परिप्रश्ने यथा-तत्वं तत्त्वं कथय ननु नः कासि कस्यासि पत्नी । प्रत्युक्तौ यथा-तकि रोदिघि गद्गदेन वचसा कस्याग्रतो रुद्यते । नन्वे. तन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ अवधारणे यथा-अमीभिः संसि.. क्तैस्तव किमु फलं वारिद घटैर्यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः। अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशुर्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरात् । वाक्यारम्भे यथा-ननु स्वलक्षणाभासं ज्ञानमेकं परं पुनः । अनुनया-- मन्त्रणे यथा-त्वमनङ्गशरैर्विशीयसे द्राक् स च कण्ठस्थितजीवमात्रशेषः । विषयो युवयोने दृश्यतेऽन्यो ननुन मानं कमलाक्षि मा कृथास्तत् । अनुज्ञायां यथा-विपदो ननु संसरन्तु ता ननु या व्याधिभिराहितास्पदाः ॥ ३१ ॥ नाना विनोभयोनेकार्थेषु । न आनयति तादात्म्यमिति ॥ डिदित्याप्रत्यये नखादित्वान्नाना। विनाओं वर्जनं तत्र यथा-नानानारी निष्फला लोकयात्रा । उभयोर्यथानानापक्षावमर्शः संशयः। अनेकार्थे यथा-नानाविधं कृतकदेहभृतां समाजम् । स्थाने तु कारणे युक्ते साम्येपि । ईन्ध (इद्ध) गतौ स्थाने मीयते स्थाने । कारणं हेतुस्तत्र यथा-स्थाने सृष्टेयः स्थितेः संहृतेश्च । युक्ते यथा-स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हिते । साम्ये यथा-पितुः स्थाने गुरुं विदुः ।।
॥ अथ पान्ताः ॥ अप स्तेयेऽपकृष्टे वजने मुदि । विपर्यये वियोगे च निर्देशे विकृतावपि । अवतेरुभ्यतेर्छक चेति पे वलोपे च अप। स्तेये यथा-च्छायाम