________________
सप्तमः काण्डः
(४४५)
अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ ३० ॥
विशेषैर्भूषितास्तैस्तैर्नित्यमात्मानमीक्षसे । न च मेऽवगच्छति यथा लघुतां करूणां यथा च कुरुते स मयि निपुणं तथैनमभिगम्य वदे रभिदूतिका चिदिति सन्दिदिशे । अत्र पूर्वोक्तौ यथा तथा शब्दौ उद्देशे उत्तरोक्तौ तु निर्देशे । साभ्ये यथागतच्छायश्चन्द्रो जगदपि तथावस्थमभवत् । जन्तू स्तन्तून् यथा-यानतनु वितनुते तिग्मरोचिर्मरीचीन् । हेतूपपत्तौ यथा-सरस्यामेतस्यामुदरवलिवीचीविवलितम् । यथा लावण्यां भो जघनपुलिनोल्लङ्घनपरम् । यथा-दृश्यश्चायं चलनयनमीनव्यतिकरस्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः । वृथा त्वविधौ स्यादनर्थके। वृणोते । वृमृथिदृशिभ्यस्त्वयद्याश्चान्ता (उ० ६०१) इति कित्या प्रत्यये, थागमे च वृथा । अवधिः शास्त्रोक्तक्रियातिक्रमः । तत्र यथाआविकं सन्धिनी क्षीरं वृथा मांसं तथैव च । अनर्थके यथा--प्रयुक्तमप्यत्रमितो वृथा स्यात् ॥ २९ ॥
॥अथ नान्ताः ॥ अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः । अनितेः, "भृमृतृत्सरी (उ० ७१६) त्युप्रत्यये अनु। लक्षणे यथा-विस्ताररुद्धवसुधेऽन्वचलं चचाल । वीप्सायां यथा-स्फुरति चानुवनं चमरीचयः । इत्थंभूते यथा-तमनुप्रसक्तहृदयेयमिति । भागे यथा-बभुः प्रतिनृपं 'ग्रामपति पर्यनुकर्षकं प्रतिग्रामं दिशं पर्यनुक्षेत्रं सस्यसम्पदः । सन्निधौ यथाअनु नदि शुश्रुविरे चिरं रुतानि । सादृश्ये यथा-ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यन्तरुचः स्मितस्य । आयामे यथा-अत्रानुगोदं मृगया निवृत्तः । गोदामामलक्षिताया मृगयाया निवृत्तः इत्यर्थः । हीने यथा-मित्रलाभमनुलाभसम्पदः । पश्चादर्थं यथा-अनुवपुरपरेण बाहुमूलप्रहितमुजाकलितस्तनेन निन्ये । सहार्थे यंभा-दिवसोनु मित्रमगमद्विलयम् ॥३०॥ नन्वाक्षेपे परिप्रश्ने