________________
(४४४)
अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोपि।। तथा स्यान्निश्चये पृष्ठप्रतिवाक्यसमुच्चये ॥ २८ ।। यथा निदर्शने द्वौ तूईशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथात्वविधौ स्यादनके ॥२९॥
•
अथो । अमतेः पथयूथेति निपातनात् अथ । समुच्चये यथा-सुजनः सुधानिधिरथो नयनानन्दं न कस्य विदधाति । आयुषो राजचित्तस्य पिशुनस्य धनस्य च । अथ स्नेहस्य देहस्य नास्ति कालो विकुतः ॥ मङ्गले यथा-अथ प्रमाणमीमांसाम् । संशये यथा-किमलम्बतां वरविलग्नमधः किमवर्द्धतोड्वमवनीतलः प्रससार तिर्यगथ दिग्भ्य इति प्रचुरी भवनिरधारितमः । आरम्भे यथा-अथेप्सितं भर्तुरुपस्थितोदयम् । अधिकारे यथा-अथ प्राकृतं । अनन्तरे यथा-प्रथमं कला भवदथामथो हिमदीधितिर्महदभूदुदितः ॥ २७ ॥ अन्चादेशे यथा-धनवांस्त्वमथो त्वालोको मानयति जुहू चावानय तावदेते अथैनयोः प्रक्षिपसर्पिराश्रु ।। प्रतिज्ञायां यथा-सर्वमनेकात्मकं वस्त्वथेति ब्रूमः । प्रश्ने यथामथ शक्नोषि(मि) भोक्तुम् । साकल्ये यथा-स्रुतं महाभाग्यं यदभिजनतो यच्च गुणतः । प्रसंगाद्वत्सस्येत्यथ खलु विधेयः परिचयः । अत्र हि परिचयमात्रं विधेयं कार्यजातं तु साकल्येन सम्पन्नमित्यर्थः । सर्वत्राथवदथो अप्यूह्यम् । तथा स्यान्निश्चये पृष्ठप्रतिवाक्यसमुच्चये । तनोतेः । पथयूथे (उ० २३१)ति निपातनात् तथा । निश्चये यथा-लोकानुग्रहहेतोस्त्वमवतीर्णः प्रदृश्यसे । कस्तथात्वेन जानीते स्वरूपं तव केशव । पृष्टप्रतिवाक्ये यथा-तथेति शेषामिव भर्तुराज्ञाम्। समुच्चये यथा -आगता मुनयस्तत्र भृगुरत्रिर्यमस्तथा ॥२८॥ यथा निदर्शने। यमेः पूर्ववत् यथा-निदर्शनं दृष्टान्तस्तत्र यथा-संचरन्ति महाधूर्ता वटे वररुचिर्यथा । द्वौ तूद्देशे निर्देशसाम्ययोः। हेतूपपत्तौ च । द्वौ तु सथा यथा शब्दो उद्देशनिर्देशयोर्यथा-तथा भव यथा तात त्रैलोक्योदरदर्पणे ।