________________
सप्तमः काण्डः
(४४३)।
स्वत्याशीः क्षेमपुण्यादौ साक्षात्प्रत्यक्षतुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ २६ ॥ निश्चये च प्रमोदे चाप्यथोऽथ समुच्चये ।
मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥२७॥ सकृत् । एका सकृच्चास्येति सुच् । सहाथै यथा-अनुभवन्ति सकृत्सकलेन्द्रियाण्यभिमुखागतमिष्टजनं बत । एकवारार्थे यथा-सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनः ॥ २५ ॥ स्वस्त्याशोःक्षेमपुण्यादौ । सुपूर्वादस्तेः सोरस्तेः स्विदिति तौ स्वस्ति। आशिषि यथा-देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मषाः । क्षेमे यथा-भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । पुण्ये यथा-स्वस्ति प्रस्तुतवस्तु किचिदुचितं चेतो गतं ब्रूमहे । आदिशब्दात् अविनाशादौ । अविनाशे यथा-स्वतिमानस्ति कैलासः । साक्षात् प्रत्यक्षतुल्ययोः । समीक्ष्यते साक्षात् । संश्चद्वेहदिति (उ० ८८२) साधुः । प्रत्यक्षे यथा-त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्य गुरु योगिनामपि । तुल्ये यथा-इयं साक्षाल्लक्ष्मीर्मदयति मृगाक्षी मम मनः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः। निश्चये प्रमोदे चापि । हन्तेर्दम्यमीति बहुवचनाते हन्त । दाने यथा-स्वयं स दशकन्धरो विनयवामनैराननैः । स्तुवन् सुदति याचते वचन हन्तकारं त्वयि । अनुकम्पायां यथा-अभि हन्ति हन्त कथमेवमाधवं सुकुमारकायमनवग्रहः स्मरः । वाक्यारम्भे यथा-हन्त ते कथयिष्यामि । विषादे यथा-हन्त चिन्तामणिभ्रान्त्या याचितोऽसि स्तुतोऽसि यत् । तत्सर्व वृत्तपाषाणक्षम्यतामर्थिनो वयम् ॥ २६ ॥ निश्चये यथा-निराश्रया मन्त हता मनस्विता । निश्चयेन हतेत्यर्थः । प्रमोदे यथा-बाला चन्द्र कलेव कान्तिमधुरा हन्त प्रिया दृश्यते ।
॥अथ थान्ताः ॥ अथो अथ समुच्चये । मङ्गाले संशयारम्भाधिकारानन्तरेषु च । अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । अथ शब्दस्य बाहुलकादोत्वे