SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ (४४२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः प्रतिदाने प्रतिनिधों वीप्सालक्षणयोरपि । पश्चात् प्रतीच्यां चरमे बताऽऽमन्त्रणखेदयोः ॥२४॥ धृत्याश्चर्यानुकम्पासु यद्वत्प्रश्नवितर्कयोः। शश्वत्सह पुननित्ये सकृत्स हैकवारयोः ॥ २५ ॥ प्रत्यभिव्यक्तमनोरथानां । भागे यथा-किंचिन्मां प्रतिदीयतां यदुचितं चेतोऽविसम्वादकृत् ॥ २३ ॥ प्रतिनिधिप्रतिपादनयोयथा-प्रतिद्विपमदामोदाद्गन्धं सप्तछदान्यधुः । शेफालीभ्यो ददुलास्यं प्रतिगन्धाच्च मारुतः ।। वीप्सायां यथाप्रतिक्षणं सा कृतरोमविक्रिया । लक्षणे यथा-किंचिन्मां प्रति भेदकारि हसितं नोक्त वचो निष्ठुरम् । पश्चात् प्रतीच्यां चरमे । अपरा दिग् देशः कालो वारणीयः । “अधरापराच्चादिति" आतिप्रत्यये पश्चोऽपरस्य दिग् पूर्वस्य चातीति पश्चादेशे पश्चात् । प्रतीच्यां यथा-पश्चादस्तं गन्तुं सपदि दिनेशः प्रपद्यते पश्य । चरमे यथा-ययौ पश्चाद्रथानीकं चतुःस्कन्धेव सा चमूः । बतामन्त्रणखेदयोः । धृत्याश्चर्यानुकम्पासु । वनुतेः शीरी भूद् स्विति किति ते, यमि रमि नमीति नलोपे च बत । आमन्त्रणे यथा-बत वितरतो यं तोयवाहा नितान्तम् । खेदे यथा-दिवसो नु मित्रमगमद्विलयं किमिवास्यते बत मया वलया ॥२४॥ धृतौ यथा-अनुभवन्ति सकृत् सकलेन्द्रियाण्यभिमुखागतमिष्टजनं बत । आश्चर्ये यथा-वराहो राहुर्वा बत बलचमत्कृत्यतिशयम् । अनुकम्पायां यथा-विरम चातक दैन्यमपास्यतां बत कियन्ति बहूनि करिष्यति । यद्वत् प्रश्नवितर्कयोः । याति यद्वत् संश्चद्वेहदिति साधुः। प्रश्ने यथागुरोर्यद्वत्परीवादं त्वं कद्वद इवावदः । वितर्के यथा-यद्वत्सरोज मुखमेव यद्वत् । शश्वत्सह पुननित्ये । शशप्लुतगता वित्यस्य, शश्वद्वेहत्साक्षादय इत्यादि शब्दात् शश्वत् । सहार्थे यथा-शश्वत्ते मुनयस्तत्र तमसेवन्त योगिनम् । पुनरर्थे यथा-शश्वदेव स गतस्तमाश्रमम् । नित्यार्थे यथा-जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि । सकृत्सहैकवारयोः । एको वारोऽस्य
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy