________________
सप्तमः काण्डः
(४४१) .
हेतौ प्रकारप्रत्यक्षप्रकाशेष्ववधारणे। एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः ॥ २२ ॥ समुच्चये विकल्पे च तावद् यावद् दिवाऽवधौ ।
कात्स्न्र्येऽवधारणे माने प्रतीत्थं भूतभागयोः ॥ २३ ॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभि-' जलनिधिः । प्रकारे यथा-पाणिगृहीतीति । अत्र हीति शब्दः प्रकारार्थः । प्रत्यक्षे यथा-कियदिति दितिसूनोस्तेन जिग्येयदिन्द्रः । अत्र कियदिति कियदिदमित्यर्थः । प्रकाशे यथा-इति भद्रबाहुः, इति पाणिनिः । भद्रबाहुपाणिनिशब्दों लोके प्रकाशेत इत्यर्थः। अवधारणे यथा-अङ्गीकृत्येति पार्थिवः । एवमर्थे यथाइत्यूचिवांस्तमेवार्थम् । समाप्तौ यथा-इति कथितकथः सन् सोथ हंसो व्यरंसीत् । उत प्रश्नवितर्कयोः । समुच्चये विकल्पे च । उम्भेः पुतपित्तनिमित्तोतेति निपातनात् तेऽन्तलुकि च उत । प्रश्ने यथा-स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बंधनम् । वितर्के यथा-किं लक्ष्मीः स्वयमागता मुररिपोर्देवस्य वक्षस्थलात्कोपात्पत्युरुतावतारमकरोदेवी भवानी भुवि ॥२२॥ समुच्चये यथा-शौर्य गाम्भीर्यमौदार्य दाक्षिण्यमुत विक्रमः । विकल्पे यथा एकमेव वरं पुंसामुत राज्यमथाश्रमः । तावद्यावहिवाऽवधौ। कासन्र्येऽवधारणे माने । तनोतेर्यातेश्च सश्वद्वेहदिति । अतिनिपातनात् । तावद् यावद् । अवधौं यथा-तावद्धरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् । प्रसाधनं मातृभिरादृताभियस्तं पुरस्तात्पुरशासनस्य । आरंकाद्भूपतिं यावदौचिती न विदन्ति ये । कात्न्ये यथा-यावद्दन्नं तावदेवात्र भुक्तम् । अवधारणे यथा-यावदमत्रं तावद्ब्राह्मणान् भोजय । यावन्ति अमत्राणि तावत एव ब्राह्मणान् भोजयेत्यर्थः । माने यथा-यावच्चयेन च यथा च यदा च यच्च यस्माच्च यत्र च शुभाशुभकर्मलभ्यम् । तावच्च तेन च तथा च तदा च तच्च तस्माच्च तत्र च कृतान्तवशादुपैति । प्रतोत्थं भूतभागयोः। प्रतिदाने प्रतिनिधी वीप्सालक्षणयोरपि । प्रथतेः प्रथेनुक्चेति तौ प्रति । इत्थंभूते यथा-तां