________________
(४४०) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
हिरुक् मध्ये विनार्थेऽति प्रकर्षे लड्ने भृशे । स्तुतावसं प्रतिक्षेपेऽप्यस्तु पोडानिषेधयोः ॥ २० ॥ असूयायामनुज्ञायामाराहरसमीपयोः। इति स्वरूपे सान्निध्ये विवक्षानियमे मते ॥ २१ ॥
॥अथ तान्ताः ॥ अति प्रकर्षे लडने भृशे । सुतावसंप्रतिक्षेपेऽपि । अततेमण्यादित्वादिप्रत्यये अति । प्रकर्षे यथा-अतिरूपात् हृता सीता । लङ्घने यथा-नीवीमतिक्रम्य सितेतरस्य तन्मेखला मध्यमणेरिवार्चिः । भृशार्थे यथा-अतिवृष्टिरवृष्टिर्वा भवेधन्नोपतापकृत् । स्तुतौ पूजायां यथा-शरोधैरतिसिञ्चन्तः। पर्यानिन्युर्दिशोऽन्धताम् । असंप्रत्यर्थे यथा-अतिकम्बलं कम्बलानां न सम्प्रति । उपभोगकाल इत्यर्थः । क्षेपो निन्दाप्रेरणं च । तत्र यथा-अतिवाहितमतिगहनं विनापवादेन यौवनं येन । अस्तु पीडानिषेधयोः । असूयायामनुज्ञायाम् । अस्यतेः कृशिकम्यमीति तुनि अस्तु । पीडायां यथा-अस्तु नाम विधुरेण वेधसा साधुरप्यलमुपाधिभिध्रुवम् । बाध्यते किमधिकैरथाधिभिर्दैवमेव शरणं विधीयताम् । निषेधे यथा-अस्तु साम प्रयोगेण । असूयायां यथा-अस्तु ज्ञास्यति कालेन सोऽल्पेनैव न भूयसा । फलं तस्येह पापस्य यत्नेनापकृतं मम ॥२०॥ अनुज्ञायां यथा-अस्त्वेवं जडधामता तु भवतो यद्वयोम्नि विस्फूर्जति । आराहरसमीपयोः । आड्पूर्वाद्रातेः संश्चद्वेहदिति निपातनात् । दूरे यथा-दिदृक्षमाणाः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः । समीपे यथा- चित्तव्यामोहता आरादपि सन्नहि पश्यति । इति स्वरूपे सान्निध्ये विविक्षानियमे मते । हेतौ प्रकारप्रत्यक्षपकार्थेष्ववधारणे । एवमर्थे समाप्तौ स्यात् । एतेई मुषीति किति ताविति । स्वरूपे यथा-इति स्म पृच्छत्यनुवेलमादृतः । सान्निध्ये यथा-पतेति तत्प्रणति विधेहि । विवक्षेत्येव भवितुमर्हति । विवक्षानियमे यथा-तदस्यास्त्यस्मिन्निति मतुरिति । अत्र हीति शब्दो विक्क्षार्थः। मते यथा-उरस्यो ह विसर्गौ तुसम्प्राहुः पाणिनेरिति । अत्र हि पाणिनेरितीति पाणिनेमतेनेत्यर्थः। हेतौ यथा