________________
सप्तमः काण्डः
_ (४३९) अङ्ग सम्बोधने हर्षे पुनरर्थे च किंच तु । साकल्यारम्भयोः तिर्यक् स्यात्तिरश्चीनवक्रयोः ॥ १९॥
यथा-हं नतोऽस्मि तव पादयोः प्रिये । हु वितर्के परिश्मने । जुहोतेः क्विपि निपातनान्मान्तत्वे हुँ। वितर्के यथा-हुजातं यदि वा दिवा निशमपि त्वामेव यः सेवते । परिप्रश्ने यथा-रामो नाम बभूव हु तदबला सीतेति हुतां पितुर्वाचा पञ्चवटीवने विहरतस्तस्या हरद्रावणः ॥
॥ अथ द्विस्वराः । तत्रादौ कान्तः ॥ स्यान्मनागल्पमन्दयोः । मन्यतेर्दागादित्वात् मनाक् । द्वयोर्यथामनागनल्पा वृत्या वा कामं क्षाम्यतु यः क्षमी ॥ १८ ॥
॥अथ गान्ताः ॥ अङ्ग सम्बोधने हर्षे पुनरर्थे च । अम गतौ गम्यमीति गे। अङ्ग सम्बोधने यथा-मम तावन्मतमदः श्रूयतामङ्ग वामपि । हर्षे यथा-पूर्वमङ्ग जुहुधि त्वमेव वा । पुनरर्थे यथा-हरति हृदयं नामैवास्याः किमङ्गं न सङ्गतिः ।
॥ अथ चान्ताः ॥ किश्च तु साकल्यारम्भयोः । किंचिनोति । क्वचिदिति डे । किंच । साकल्ये यथा-देव त्वं किञ्च शत्रून् समिति विजयसे । आरम्भे यथा-किञ्चैतस्मिन् सुरतसुहृदस्तन्विते वान्ति वाताः । तिर्यक् स्यात्तिरश्चीनवक्रयोः। तिरोऽञ्चति क्विपि । तिरसस्तिर्यती (३-२-१२४) ति तिर्यादेशे तिर्यक् । तिरश्चीने यथा-तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः । वके यथा-उबुद्धमुग्धकनकाजनिभं वहन्तीमासज्जतियंगपवर्त्तितदृष्टिवक्त्रम् ॥ १९ ॥ हिरुक मध्ये विनार्थे । हिनोते हुलकात् " कितिरुच् प्रत्यये हिरुक् । मध्ये यथावाडवस्य रुचिर्वारांनिधेर्हिरुक् विजृम्भते । विनार्थे यथा-हिरुक्कर्मणां मोक्षः । कर्मक्षये मोक्ष इत्यर्थः । कान्तोऽपि ।