________________
(४३८) अनेकार्थसंग्रहः सटीकः :: द्वितीयो विभागः
हा शुगदुःखविषादेषु हि हेताववधारणे। विशेषे पादपूणों च ही विस्मयविषादयोः ॥ १७ ॥ दुःखहेतौ च हं रोषे भाषणेऽनुनयेऽपि च ।
हुं वितर्के परिप्रश्ने स्थान्मनागल्पमन्दयोः ॥ १८ ॥ सम् । सङ्गार्थे यथा-संगमविरहविकल्पे । प्रकृष्टार्थे यथा-साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जम्भते । शोभनार्थे यथा-नोवीबन्धवदागतं शिथिलतां सम्मात्तमाणे ततः । समार्थे यथा-संविभागं च बन्धुषु । स्मातीते पादपूतों। अस्यतीति रुक्मग्रीष्मेति निपातनात् म अकारलोपे च स्म । अतीते यथा-इति पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोशलेश्वरः । पादपूर्ती यथा-सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः। अथ हादयः । इ सम्बुद्धौ पादपूरणे । जहातेः क्वचिदिति डे ह । द्वयोर्यथा-निचकार विप्रान् ह जघान शश्वत् ॥१६॥ हा शुगदुःखविषादेषु । जहातेर्विचिहा त्रिष्वपि यथा-पाषाणोपम हा कृतघ्नहृदय स्मृत्वा न किं दीर्यसे । हि हेतावधारणे पादपूर्णी (तौं) च । हिनोतेः क्विपि तागमाभावे हि । हेतौ यथा-सदाभिमानैकधना हि मानिनः । अवधारणे यथा--मयि सृष्टिहि लोकानां रक्षा युष्मास्ववस्थिता । विशेषे यथा--स्पृशत्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः । पादपूर्ती यथा-के दारेषु हि पश्यन्त्यः केदारेषु विनिःस्पृहा । ही विस्मयविषादयोः । दुःखहेतौ च । जहाते
तात्प्रमः किदिति । बाहुलकादीकारे ही। विस्मये यथा-हतविधिललितानां ही विचित्रो विपाकः । विषाददुःखहेत्वोर्यथा-ही स एव मुनिः पाणिरधस्ताद्विन्ध्यभूभृतः ॥१७॥
॥अथ हादो मान्तौ ॥ हं रोषे भाषणेऽनुनयेऽपि च । हम्म गतावित्यतो विचि पृषोदरादिस्वात् मलोपे च हं । रोषे भाषणे यथा-हं वृषल मामाक्षिपसि । अनुनये
१. हुं लज्जायां निवारणे । भयादो भर्सने कोपेऽप्यनिच्छायां च कुत्सने ।