________________
सप्तम काण्डः
(४३७) वि श्रेष्ठेऽतीते, नानार्थे वे हेतौ पादपूरणे । शं कल्याणे सुखेऽथ स्वित् परिप्रश्नवितर्कयोः ॥१५॥ मं संगार्थे प्रकृष्टार्थे शोभनार्थसमार्थयोः।।
स्मातीते पादपूतों ह सम्बुद्धौ पादपूरणे ॥ १६ ॥ योगशुद्धीच्छाप्रीतिशान्तिपूजादर्शनतत्परप्रशंसासंगदिक्योगावयववियोगान्तर्भावबहुत्वमहत्त्वस्थितिदाननानार्थदक्षिणानुवृत्यादिषु । अथ वादयः । वा समुच्चय एवार्थ उपमानविकल्पयोः ॥ वातेः क्विपि वा । समुच्चये यथायशो हि (धि)गन्तुं सुखमीहितुं वा । मनुष्यसंख्यामतिवर्तितुं वा । उपमाने यथा-विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकी तिलकः स एव । विकल्पे यथा-एको वासः पत्तने वा वने वा ॥ १४॥ वि श्रेष्ठेऽतीते नानार्थे । वीक् प्रजनादौ, 'नीवी प्रहृभ्योदिडिति (उ० ६१६) इकारे वि । श्रेष्ठे यथा-विशिनष्टयन्तरात्मानं वर्ण रूपापि भारती । अतीते यथा-तामेकतस्तव बिभर्ति गुरुविनिद्रः । नानार्थे यथा-विचित्राश्चित्तवृत्तयः । वे हेतौ पादपूरणे । वातेबहुलकात् डै वै । हेतौ यथा-परमार्थं वृणीते वै तेनास्य तन वै स्तवम् । पादपूरणे यथा-आत्मा वे जायते पुत्रः।
॥अथ शादिर्मान्तः॥ शं कल्याणे सुखे । शाम्यतेर्गमिजमी (उ० १३७)ति डित्यमि शं। द्वयोर्यथा-त्वं शं करोषि भुवनत्रयशङ्करत्वात् ।
॥अथ सादिर्दान्तः॥ अथ स्वित् परिप्रश्नवितर्कयोः । स्विद्यतेः क्विपि स्वित् । परिप्रश्ने यथाद्विपं स्विदश्वः समरेभ्युपैति । वितर्के यथा-देवी स्विदेषा नरसम्भवा वा ॥ १५॥
॥अथ सादी मान्तौ ॥ सं संगार्थे प्रकृष्टार्थे शोभनार्थसमार्थयोः। समतेर्गमिजमी ति डित्यमि १. नानार्थे पक्षिवाचि त्वनव्ययम् । वै पादपुरणे हेतौ सम्बुद्धयनुनयेऽपि च ॥शं. २. सु पूजायां भृशार्थानुमतिकृच्छ्रसमृद्धिसु । स्मा० ।