________________
(३७६) अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः
अशोकद्रौ जपापुष्पे राजजम्बूस्तु - जम्बूभित् । पिण्डखर्जूरवृक्षश्चाप्यवष्टम्भस्तु . काश्चने ॥२१३॥ संरम्भारम्भयोः स्तम्भे शासकुम्भोऽश्वमारके । शातकुम्भन्तु कनकेऽभ्यागमः समरेऽन्तिके ॥२१४॥ घाते रोधेऽभ्युपगमेऽनूपमस्तु मनोरमे । अनूपमा सुप्रतीकस्त्रियामुपगमः पुनः ॥२१५॥ अङ्गीकारेऽन्तिकगतावुपक्रमस्तु विक्रमे । उपधायां तदादयाचिख्यासाचिकित्सयोरपि ॥२१६॥
शातकुम्भन्तु कनके । यथा-आह्लादयन्ति सौख्याम्भः शातकुम्भीयकुम्भिकाः । अथ मान्ताः ॥ अभ्यागमः समरेऽन्तिके घाते रोधेऽभ्युपगमे । अभ्यागच्छन्ति, अत्रेति अभ्यागमः। “स्थादिभ्यः कः" अभ्यागमनम्बा, 'युवर्णेत्यल' (५-३-२९) । सर्वेषु यथा- अभ्यागमो यत्र बभूव राज्ञां नानादिगन्तेभ्य उपागतानाम् । अभ्यागमनेऽपि यथा-तनौ ममुस्तत्र न कैटद्विषस्तपोधनाभ्यागमसम्भवा मुदः ॥२१॥ अनूपमस्तु मनोरमे । न उपमा अस्य अनूपमः, वाच्यलिङ्गः यथा-अनुपमसुखबीजं धर्ममेकं गृणन्ति । अनूपमा सुप्रतीकस्त्रियां। सुप्रतीको दिग्गजस्तस्य स्त्रियां भार्यायाम् । उपगमः पुनः अङ्गीकारेऽन्तिकगती। उपगमनमुपगमः । अङ्गीकारे यथा- धर्मोपगमशुद्धात्मा ॥२१५॥ अन्तिकगतौ यथा- उपगममर्हति साधुः सुचरित्रो मेधयानुसंगतः । उपक्रमस्तु विक्रमे । उपधायां तदाद्याचिख्यासाचिकित्सयोरपि। आरम्भे। उपक्रमणमुपक्रमः । विक्रमारम्भयोर्यथा- उपक्रमः सम्प्रति निष्फलो भवेत् । उपधा, धर्मादिना सचिवपरीक्षा, तत्र यथा-उपक्रमैरस्खलितैर्विशुद्धाः । तदाद्याचिख्यासायां तु तत्पुरुषे आदावुपक्रमोपज्ञ इति क्लीबे यथा- नन्दोपक्रम प्रमाणानि नन्दे न प्रथमं ज्ञात्वायाचिख्यासितानीत्यर्थः । चिकित्सायांः यथाअसाध्योपक्रमा रोगानारभ्यन्ते चिकित्सितुं । अथ जलगुल्मो जलावर्तेऽबुचत्वरे