________________
चतुर्थः काण्डः ..
(३७७) आरम्भेऽथ जलगुल्मो जलावर्तेम्बुचत्वरे । कमठे दण्डयामस्तु दिवसे कुम्भजे यमे ॥ २१७ ॥ प्रवङ्गमः कपो भेके पराक्रमस्तु विक्रमे । सामर्थे चाभियोगे च महापद्मः पुनर्निधौ ।। २१८ ॥ नागसंख्याभिदोर्यातयामो भुक्तसमुज्झिते । जीर्णे च सार्वभौमस्तु दिग्गजे चक्रवर्तिनि ॥ २१९ ॥ अनुशयः पश्चात्तापे दीर्घद्वेषानुबन्धयोः ।
अन्वाहार्यममावास्या श्राद्धमिष्टेश्च दक्षिणा ॥ २२० ॥ कमठे। जलस्य गुल्मो जलगुल्मः । दण्डयामस्तु दिवसे कुम्भजे यमे । दण्डवत् यामा अस्य, दण्डं यच्छति वा, दण्डयामः । कुम्भजोऽगस्तिः, यमः कीनाशः ॥ २१७ ॥ प्र(प्लवङ्गमः कषौ भेके । प्रवेण गच्छति प्रवङ्गमः । "नाम्नो गम" (५-१-१३१) इति खः । कपो यथा-संचेरुरात्मान इवापरं क्षणात् क्षमारुहं देहमिव प्रवङ्गमाः । पराक्रमस्तु विक्रमे । सामर्थ्य चाभियोगे च । पराक्रमणं पराक्रमः । त्रिष्वपि यथा-पराक्रमः परिभवे वैयात्यं सुरतेष्विव । महापद्मः पुनर्निधौ नागसंख्याभिदोः । महती पद्मा अस्य, महापद्मः ॥ २१८॥ नागसंख्याभिदोरिति नागभेदे संख्याभेदे च । यातामो भुक्तसमुज्झिते । जीर्णे च । याता यामा अस्य यातयामः ।। वाच्यलिङ्गः ।। भुक्तसमुज्झिते यथा-दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरग्नयः । अयातयामान्येतानि नियोज्यानि पुनः पुनः ।। जीर्णो वृद्धस्तत्र यथा-अहो दृष्टचरमप्यस्य सांग्रामिकमोजायितं मामयातयाममिव भीषयते । सार्वभौमस्तु दिग्गजे चक्रवर्तिनि । सर्वभूमेति ईशो वा सार्वभौमः । "पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ्” (६-१-१८)॥ चक्रवर्त्तिनि यथा-ज्योत्स्नाजलैरयमुदयते शबरी सार्वभौमः ॥ २१९॥
अथ यान्ताः अनुशयः पश्चात्तापे दीर्घद्वेषानुवन्धयोः । अनुशयनमनुशयः । पश्चात्ताप