________________
चतुर्थः काण्डः ... (३७५) पिण्डपुष्पं जपायां स्यादशोके सरसीरहे । बहुरूपः स्मरे विष्णो सरटे घृणक शिवे ॥२१०॥ मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च । विप्रलापो विरुद्धोक्तावनथकवचस्यपि ॥२११॥ वृकधूपो वृक्षधूपे सिल्लहकेऽथ वृषाकपिः ।
वासुदेवे शिवेऽग्नौ च हैमपुष्पन्तु चम्पके ॥२१२॥ सरसीरहे । पिण्डरूपं पुष्पमस्य पिण्डपुष्पम् । बहुरूपः स्मरे विष्णौ सरटे धूणके शिवे । बहूनि रूपाणि अस्य बहुरूपः। धूणकमौषधिभेदः ॥२१०॥ मेघपुष्पं तु नादेये पिण्डाभ्रे सलिलेऽपि च । मेघस्य पुष्पमिव मेघपुष्पम् नादेयो वेतसः । पिण्डाभ्र ओषधिमेदः। सलिले यथा-मेघपुष्पविशदीकृता दिशः । विप्रलापो विरुद्वोक्तावनथकवचस्यपि। विप्रलपनं विप्रलापः । द्वयोयथा-कृतजनपरितापैविप्रलापैः किमेमिः ॥२११॥ वृकधूपो वृक्षधपे सिल्हके । वृकान् धूपयति वृकधूपः । द्वावपि गन्धद्रव्यभेदौ । अथ वृषाकपिः। वासुदेवे शिवेऽग्नौ च । वृषेण तेजसा आकम्पते वृषाकपिः । "अभिकुण्ठि कंप्पं हिभ्यो नलुक् चेति इ: (उ.६१४) पुंसि । शिववासुदेवयोर्यथा- वृषे संगं बिभ्रद्भवसि सततं ताऱ्यावहनो, रिपोः शूलोद्भेदी प्रथम इह सन्नंदक इति । सदा शक्ते" भवसि न तु मां चापि भजसे, समयानुप्राही प्रभवसि वृषाकप्युपमितः । अग्नौ यथा-वृषाकरिवातपम् । इन्द्रसूर्ययोरपि । हेमपुष्पन्तु चम्पके अशोकद्रौ जपापुष्पे। हेमवर्ण पुष्पमस्य, हेमवणं पुष्पमिति वा हेमपुष्पम् ॥२१२॥ अथ बान्ताः ।। राजजम्बूस्तु जम्बूभित् पिण्डखर्जूरवृक्षश्चापि । राज्ञो जम्बूः राजजम्बूः । स्त्रियां । अथ भान्ताः । अवष्टम्भस्तु काश्चने। संरम्भारम्भयोः स्तम्भे । अवष्टभ्यते अवष्टम्भः । "अवाच्चेति षत्वं । कांचन-संरम्भयोर्यथा-रघोग्वष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । ॥२१३॥ आश्रयेऽपि । यथा-दन्तावष्टम्भपातक्रमनमितबहिर्गर्तवद्गण्डभित्तिः । शातकुम्भोश्वमारके । शातकुम्भे गिरौ भवः शातकुम्भः । अश्वमारकः करवीरः।