________________
अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः आज्ञायामौषधीभेदे मेरुजम्ब्यां सुरभिदि । सौदामिनी तडिद्भेदतडित्तोरप्सरोभिदि ॥२०॥ हर्षयित्नुः सुते स्वर्णेऽवलेपो गर्वलेपयोः । दूषणेऽप्यपलापस्तु प्रेमापहवयोरथ ॥२०७॥ उपतापो गदे तापे जलकूप्यंधुगर्भके । सरस्यां जीवपुष्पन्तु दमनके फणिज्जके ॥२०८॥ नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ।
परिवापो जलस्थाने पर्युप्तिपरिवारयोः ॥२०९॥ यामौषधीभेदे मेरुजम्ब्वां मुरीभिदि । शोभनं दर्शनमस्याः सुदर्शना ।।२०५|| मेरुजम्ब्बां स्त्रीपुंमः । सौदामि(म)नी तडिद्धेदतडितोरप्मरोभिदि ॥२०६॥ सुदाम्ना पर्वतेनैकदिक् सौदामनी। टनुभ्य दिशीत्यम् । तडिद्भेदतडितोयथा-सौदामिन्या कनकनिकषस्निग्धया दर्शयोवीम् । हर्षयित्नुः सुते स्वर्णे । हर्षयति हर्षयित्नुः । दृषि पुषीति इत्नुः । पुंसि । ॥ अथ पान्ताः । अवलेपो गर्वलेपयोः । दूषणेऽपि । अवलेपनमवलेपः । गर्वे यथा-बलावलेपादधुनापि पूर्ववत्प्रबाध्यते तेन जगजिगीषुणा । अपलापस्तु प्रेमापहृवयोरथ । अपलप्यते अपलापः । अपहवे यथा-धनापलापं कुरुते दुरात्मा । उपतापो मदे तापे । उपतप्यतेऽनेन उपतापः । तापे यथा-परोपतापेन समृद्धिभावं । जलकूप्यंधुगर्भके । सरस्यां । जलस्य कूपी जलकूपी । अन्धोः कूपस्य गर्भकं तत्र । जीवपुष्पं तु दमनके फणिज्जके । जीवस्य पुष्पं जोवपुष्पं । दमनको गन्धोत्करः । फणिज्जको मरुबकः ॥ २०८॥ नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे । नागाकारं पुष्पमस्य नागपुष्पः । परिवापो जलस्थाने पर्युप्तिपरिवारयोः। पुर्युप्यतेऽस्मिन् परिवपण वा परिवापः । परीवापोऽपि जलस्थानपरिवारयोर्यथा-भृतपरिवापा मुनयो वनभुवि राज्यं प्रतायन्ते । पर्युप्ति लादेर्भाण्डाभाण्डान्तरे क्षेपः । वपनेऽपि यथा-एतल्क्लेशपरीबापमानं भिक्षाप्रयोजनम् ।।२०९॥ पिण्डपुष्पं जपायां स्यादशोके