________________
........... चतुर्थः काण्डः ...
(३७३) सरोरुहिण्यां कासारे स्तनयित्नुः पयोमुचि ।।.. मृत्यौ स्तनिते रोगे च सारसनमुरच्छदे ॥२०३॥ कांच्यां च सामयोनिस्तु सामोत्थे दुहिणे गजे। .. सामिधेनी समिदृचोः सुयामुनो जनार्दने ॥२०॥ वत्सराजे प्रासादेऽद्रिभेदे चाथ सुदर्शनः ।
विष्णोश्चक्रे सुदर्शन्यमरावत्यां सुदर्शना ॥२०५।। सरोरुहे । सरोरुहिण्यां कासारे । सरोजानि सन्त्यस्यां सरोजिनी । मन्माज्जादे नीति इन् । सरोजिनो संजातत्वात् सरोरुहमपि सरोजिनी ।।२०२॥ कासारः सरसो। सरोरुहे सरोरुहिण्यां च यथा- सरोजिनी यद्विमुखी शशाङ्के यद्यामिनीमाहियते न भानुः। स्फुटं फलं बालमृगायताक्षि विदग्धदूती परिवर्जनस्य । स्तनयित्नुः पयोमुचि । मृत्यौ स्तनिते रोगे च । स्तनयति स्तनयित्नुः। पुसि। हृषि पुषीति इत्नुः । स्तनितपयोमुचोर्यथा-यत्नोयं स्तनयित्नुना विरचितो मन्ये मदुच्छित्तये । सारसनमुरश्छदे। काच्यां च । सारं सनोति सारसनं । उरस्छदे उरने यथा-दध्रुः सारसनं रणे ॥२०३।। काञ्च्यां यथा-विश्वम्भरासारसनायमानं कञ्चुकमात्रेऽपि । सामयोनिस्तु सामोत्थे द्रुहिणे गजे । सामवेदो योनिरस्य साम्नां योनिर्वा सामयोनिः । सामोत्थे वाच्यलिङ्गः । शेषयोः पुंसि । सामिधेनी समिचोः। समिन्द्वे ज्वलनोऽस्याः सामिधैनी। दिननग्नेति साधुः । समिधामाधानी वा समिध आ धानेटेत्यणि डीः। समिधि यथा-दूरेप्यशङ्कितधियः कुशसामिधेनी नीवारपुष्पफलमूलमुपाहरन्ते । रुचि यथा-सामिधेनीरधीत्य । सुयामुनो जनाईने । वत्सराजे प्रासादेऽद्रिभेदे च । यमुनाया अयं यामुनः । शोभनो यामुनः सुयामुनः ॥२०४॥ अथ सुदर्शनः। विष्णोश्चक्रे। सुखेन दृश्यते सुदर्शनः । “शासु युधोति अनः” (५-३-१४१) पुंसि । वाचस्पतिस्तु चक्र सुदर्शनोऽनियामित्याह । यथा-तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः । सुदर्शन्यमरावत्यां। सुष्ठु दृश्यतेऽस्यामनटि ड्यां च सुदर्शनी । लिङ्गानुशासनकाराऽभिप्रायेण पुंसि । गौडमतेन तु क्लीबे । सुदर्शना आज्ञा