________________
(३७२)
अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः सम्मूर्छनमपि व्याप्तौ मोहे सनातनोऽच्युते । पितॄणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे ॥१९८॥ सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे । संयमनं व्रते बन्धे संयमनी यमस्य पूः ॥१९९।। समादानं समीचीनग्रहणे नित्यकर्मणि । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥२०॥ सम्वदनन्तु सम्बादे समालोचे वशीकृतौ । समुत्थानं निदानेऽभियोगे सम्वाहनं पुनः ॥२०१॥ वाहनेऽङ्गमर्दने च सम्प्रयोगो तु कामुके ।
कलाकेलौ सुप्रयोगे सरोजिनी सरोरुहे ॥२०२॥ यथा-राजा शत्रुसमापनाय विहितोद्योगः स्थितो यद्यपि ॥१९७॥ सम्मू
र्छनमभिव्याप्तौ मोहे । सम्मूञ्जेयते सम्मर्छनम् । सनातनोऽच्युते । पितृणामतिथौ रुद्रवेधसोः शाश्वते स्थिरे । सना सदा भवः सनातनः । सायं चिरमिति तनट् । रुद्राच्युते वेधस्सु यथा- ददृशे तेन सनातनः क्षणात् शाश्वतस्थिरयोर्वाच्यलिङ्गः । तयोर्यथा-सनातने वर्त्मनि साधुसेविते ॥१९८॥ सदादानो गन्धगजे हेरम्बेऽभ्रमतङ्गजे । सदा दानमस्य सदादानः संयमन व्रते बन्धे । संयम्यतेऽनेन संयम्यते वा संयमनम् । बन्धे यथा-नीवीसंयमनं विलोक्य सुतनोः । संयमनी यमस्य पूः। संयम्यन्ते प्राणिनोऽस्यां संयमनी ॥१९९॥ समादानं समीचीनग्रहणे नित्यकर्मणि । समादीयते समादानम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि । समापद्यते समापन्नं, वधे क्लीवः, शेषेषु वाच्यलिङ्गः ॥२००॥ सम्बदनन्तु सम्बादे समालोचे वशीकृतौ। समुद्यते सम्वदनम् । समुत्थानं निदानेऽभियोगे। समुत्थीयतेऽ. स्मिन् समुत्थीयते वा समुत्थानम् । सम्बाहनं पुनः वाहनेऽङ्गमईने च । सम्बाह्यते सम्वाहन।।२०१।। अङ्गमईने यथा-अशिथि परिरम्भैर्दत्तसम्बाहनानि । सम्प्रयोगी तु कामुके । कलाकेलौ मुप्रयोगे। सम्प्रयोगोऽस्यास्तोति सम्प्रयोगी । कलाकेलि स्मरः । कामुके सुप्रयोगे च वाच्यलिङ्गः । सरोजिनी