________________
चतुर्थः का विलेपनी स्यादयचान्यां चारचेपस्त्रियामपि । वृक्षादनो मधुच्छत्रे चलपत्र कुठारयोः ॥ १९४॥ वृक्षादनी तु वन्दायां विदार्या गन्धकौषधे । वृषपर्वा तु शृङ्गारिहर दैत्यकसेरुषु || १९५ || वैरोचनो रविसुते सुगते बलिदानवे । saan घनसारे कलानाथाब्धिफेनयोः ॥ १९६॥ श्लेष्मघना तु केतक्यां मल्यामथ समापनम् । परिच्छेदे समाधाने समाप्तिवधयोरपि ॥१९७॥
(३०१):
विश्वं करोति विश्वकर्मा । अर्के यथा- प्रजानामिव विश्वकर्म्मकिरणाः । देवशिल्पिनि यथा-निर्मातुं विश्वकम्मैव कर्म्मठो रूपमीदृशम् । विघ्नकारी विघातस्य कारके घोरदर्शने । विघ्नं करोति विघ्नकारी । वाण्यलिङ्गः । द्वयोर्यथा-मा विघ्नकारो भव मे दुरात्मन् ॥ १९३॥ विलेपनी स्याद्यवाग्वां चारुवेषस्त्रियामपि । विलिप्यतेऽनया विलिपति वा विलेपनी। वृक्षादनो मधुच्छत्रे चलपत्रकुठारयोः । वृक्षो द्यतेऽनेन वृक्षादनः । मधुच्छत्रं मधुमण्डः । चलपत्रः पिप्पलः ॥ १९४॥ वृक्षादनी तु बन्दायां विदार्यां गन्धकौषधे । वन्दा वृक्षापरिप्ररूढो वृक्षः । विदारी लता मेदः । वृषपर्व्वा तु शृङ्गारिहरदैत्यकसेरुषु । वृषेण पव्र्वाऽस्य वृषपर्वा । वृषं पृणाति वा । स्ना मदीति वन्। शृङ्गारिणि वाच्यलिङ्गः । चतुर्ष्वर्थेषु । दैत्ये यथा - उपनीय बिन्दुसरसान्मयेन या मणिदारु चारु किल वार्षपर्वणं । विदधेऽवधूत सुरसद्मसम्पदं समुपासदत्सपदि संसदं सतां । अत्र हि वृषपर्वण इदं वार्षपर्वणं । कशेरु कन्दभेदः । १९५ ।। वैरोचनो रविस्रुते। सुगते बलिदानवे । विरोचनस्यायं वैरोचनः । बलिदानवे यथा - वैरोचन-निकेतनं । श्वेतधामा घनसारे कलानाथाधिफेनयोः । श्वेतं घामाऽस्य श्वेतधामा । त्रिष्वर्थेषु ॥ १९६ ॥ श्लेष्मघना तु केतक्यां मस्यां । श्लेष्मणि घना श्लेष्मघना । अथ समापनं परिच्छेदे समाधाने समाप्तिवधयोरपि समाप्यते समापनम् । परिच्छद इयत्ता । समाधानं समाधिः । वधसमाप्त्यो
.