SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ (३७०) अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः प्रश्नभेदे शरावे च विरोचनोऽग्निसूर्ययोः। प्रह्लादनन्दने चन्द्रे विहेठनं विडम्बनम् ॥१९॥ हिंसायां मर्दने विस्माफ्ना स्यात्कहके स्मरे । गन्धर्वनगरे चापि विष्वक्सेनो जनार्दने ॥१९॥ विष्वक्सेना तु फलिनी विश्राणनं विसयिते। सम्प्रेषणे परित्यागे विहननन्तु पिञ्जने ॥१९२॥ वधेऽथ विश्वकर्माऽर्के मुनिभिदेवशिल्पिनोः । विघ्नकारी विघातस्य कारके घोरदर्शने ॥१९३॥ स्वस्तिकैरंडविष्णुषु । प्रश्नभेदे शरावे च । वर्द्धते वर्द्धमानः। शरावे पुंक्लीवः । अन्यत्र पुंसि । वीरजिने चतुर्विंशतीर्थकरे । यथा-श्रीवर्धमानं जिनमाप्तमुख्यं स्वयंभुवं स्तोतुमहं यतिष्ये ॥१८९॥ विगेचनोऽग्निसूर्ययोः। प्रहादनन्दने चन्द्रे । विरोचते विरोचनः । अग्नौ यथा-दभ्रे विरोचनरुचिं पटलं जटानाम् । सूर्य यथा-त्रैलोक्यलोचनविरोचनचाटुगर्भाम् । प्रह्लादनन्दनो बलिपिता । तत्र यथा-राजते गजराजस्य दानं वैरोचनेरिव । चन्द्रे यथा-वैरोचने महसि मुक्तशुचश्चकोराः। विहेठनं विडम्बने । हिंसायां मर्दने । विहेठ्यते विहेठनम् ॥१९०॥ विस्मापना स्यात्कुहके स्मरे गन्धर्वनगरे चापि । विस्माप्यते विस्मापनं तस्य आख्या प्रसिद्धिर्विस्मापनाख्या । कुहकमिन्द्रजालम् । स्मरे पुंसि । शेषयोः क्लीबे । विष्वक्सेनो जनाईने । विषूची सेनाऽस्य विष्वक्सेनः । यथा-विष्वक्सेनं सेनया सोम्यगाच्च ॥१९१॥ विष्वक्सेना तु फलिनी। फलिनी प्रियङ्गुः । विश्राणनं विहायिते । सम्प्रेषणे परित्यागे । विश्राण्यते विश्राणनं विहायितं दानं । तत्र यथा-विश्राणनादन्यपयस्विनोनाम् । विहननं तु पिजने । वधे । विहन्यतेऽनेन विहन्यते वा विहननं पिञ्जने यथा-तूले विहनना हते ॥१९२॥ वधे यथा-विहननं मधुना शत्रोरिच्छन्ति पराक्रमान्न बुद्धिबलात् । अथ विश्वकर्माऽ मुनिभिदेवशिल्पिनोः ।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy