________________
चतुर्थः काण्डः महाधनं महामूल्ये सिल्हके चारुवाससि । महासेनो महासैन्ये स्कन्देऽप्यथ महामुनिः || १८६ ।। अगस्ति कुस्तुम्बुरुणोर्मालुधानी लताभिदि । माधान मातुलाही मातुलानी पुनः शणे ॥ १८७॥ कलापे मातुळपन्यां रसायनो विहङ्गमे । पक्षीन्द्रे रसायनन्तु जराव्याधिजिदौषधे ॥ १८८ ॥ राजादनः पियकद्रौ क्षीरिकायां त्रिपत्रके । वर्द्धमानो वीरजिन स्वस्तिकैरण्डविष्णुषु ॥ १८९ ॥ भीमसेने खण्डसैरिभयोरपि । शृङ्गमस्त्यस्य शृङ्गी । पृष्ठे शृङ्गी पृष्ठ || १८५ || महाधनं महामूल्ये सिल्हके चारुवाससि । महच तद्धनं महाधनं । महद्धनमस्य बहुव्रीहि पक्षे तु महामूल्यचारुवाससोर्वाच्यलिङ्गः । महासेनो महासैन्ये स्कन्देऽपि । महती सेनाऽस्य महासेनः । महासैन्ये वाच्यलिङ्गः । स्कन्दे यथा - महासेनसमप्रभः । अथ महामुनिः । अगस्तिकुस्तुम्बुरुणोः । महान्मुनिर्महामुनिः । पुंसि ॥ १८६॥ अगस्तौ यथा - उदिते हि महामुनौ । कुस्तुम्बुरु धान्यकम् । मालुधानी लताभिदि । माला धीयतेऽनया मालुधानी । पृषोदरादित्वात् । मालुधानो मातुलाहौ । मलते विषं मालुधानः । मुमुचानेति साधुः । मातुलाहिश्चित्रसर्पः । मातुलानी पुनः शणे । कलापे मातुलपत्न्यां । मायाः श्रियस्तुलयाऽनिति अचि इयां मातुलानी गुरुपत्नी पितृष्वसा । मातुलस्य भार्या मातुलाचार्येति ङी आन् चान्तः । शणं भङ्गा तत्र यथा-मातुलं मातुलानीं च ॥ १८७॥ मातुलपन्यां यथा- मातृष्वसा मातुलानी गुरुपत्नी पितृष्वसा । रसायनो विहङ्गमे । पक्षीन्द्रे । रसायां पृथिव्यामयनमस्य रसायनः । रसायनन्तु जराव्याधिजिदौषधे । रसानामयनमत्र रसायनम् । यथा - कर्णामृत नि मनसश्च रसायनानि ॥ १८९॥ राजादनः पियालद्रौ क्षीरिकायां त्रिपत्रके । राज्ञाद्यते राजादनः । पुंक्लोबः । पियालदुश्चारवृक्षः । क्षीरेका मधुरालफलम् । त्रिपत्रकः किंशुकः । उत्कृष्टभोज्येपि । सर्वेषु यथा-राजादनं पुण्यकृतो लभन्ते । वर्द्धमानो वीरजिने
९ रोचमानो दीप्यमाने कण्ठाल च वाजिनः । वर्द्धमानो ० ।
(३६९)