________________
(३६८) अनेकार्थसंग्रहः समीकः : द्वितीयो विभागः
प्रतिमानं प्रतिबिम्बे गजदन्तद्वयान्तरे । प्रसाधनी कंकतिकाप्तिद्ध्योः प्रसाधनं पुनः ॥१८३।। वेषे प्रचालकी सप्पै मयूरेऽथ पस्विनी । विभावयाँ गोधेन्वां च पुण्यजनस्तु सज्जनेः॥१८४॥ गुह्यके यातुधाने च पृथग्जनोऽधमे जडे ।
पृष्ठशङ्गी भीमसेने खण्डसैरिभयोरपि ॥१८५॥ नः। सतो गुणान्तराधानं संस्कारः । तत्र यथा-प्रतियत्नमपेक्ष्यते नहि प्रतिभातत्वसहोदरी सताम् । उपग्रहणमादानम् । लिप्सायां यथा-मिथ्यैव कुर्वते मूढाः प्रतियत्नं धनम्प्रति । प्रहसनन्तु प्रहासाक्षेपयो रूपकान्तरे । प्रहस्यते प्रहसनम् । रूपकान्तरं दशरूपकप्रसिद्ध । तत्र प्रहासे च यथा-गात्रैर्गिरा च विकलश्चटुमीश्वराणां कुर्वन्नयं प्रहसनस्य नटः कृतोऽस्मि ॥१८२॥ प्रतिमानं प्रतिबिम्बे गजदन्तद्वयान्तरे । प्रतिमीयते प्रतिमानं । प्रतिबिम्बे यथाकिं तस्याप्रतिमानमानमसहः सिंहस्य गम्यो गजः । गजदन्तद्वयान्तरे यथाअम्भोधिरोधप्ति पृथुप्रतिमानमागरुद्वोरुदन्तमुसलप्रसरं निपेते । प्रसाधनी कंकतिकासिद्ध्योः । प्रसाद्धयतेऽनया प्रसाधनी । ककतिकायां यथाप्रसाधनी हस्तसखीजनान्विता । सिद्धिनिष्पत्तिः । प्रसाधनं पुनः ॥१८३॥ वेषे । वेषो मण्डनं । यथा-ध्रियते कुसुमप्रधानं तव तच्चारु वपुर्न दृश्यते । आराधनेऽपि मंखः । समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना । प्रचलाकी सर्प मयूरे। प्रचछमकति णिनि प्रचलाकी प्रचलाकः कलापो (प्रचापो) ऽस्त्यस्य वा । मयूरे यथा-कलरवैः प्रचलत्प्रचलाकिनां। अथ पयस्विनो विभावयाँ गोधेन्वां च । पयोऽस्त्यस्याः पयस्विनी । अस्त प इति विन् । गोधेन्वां यथाकथं नु शक्योऽनुनयो महर्षेविंश्राणनादन्यपयस्विनीनाम् । पुण्यजनस्तु सज्जने। गुह्यके यातुधाने च । पुण्यो जनः पुण्यजनः । सज्जनगुह्यकयोर्यथा-अलकेव पुण्यजनालङ्कृता ॥१८४॥ पृथग्जनोऽधमे जडे। पृथग् जनेभ्यः पृथगजनः । द्वयोर्यथा-विविनक्कि न बुद्धिदुर्विधः । स्वयमेव स्वहितं पृथगजनः । पृष्ठशङ्गी