SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चतुर्थः काण्डः (१) निरीक्षणश्रवणयोनिनिमलक्तके । खलीकारे प्रजननं प्रगमे योनिजन्मनोः ॥१७९॥ प्रणिधानमभियोगे समाधानप्रवेशयोः । प्रयोजनं कार्यहेत्वोः स्यात्प्रवचनमागमे ॥१८०॥ प्रकृष्टवचने प्रस्फोटनं सूप्पे प्रकाशने ताडने । प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च ॥१८॥ प्रतियत्नः संस्कारे स्यादुपग्रहणलिप्सयोः। प्रहसनन्तु प्रहासाक्षेपयो रूपकान्तरे ॥१८२॥ मलतके । खलीकारे । निर्भयतेऽनेन वा निर्भर्सनं ॥अलक्त के यथा-हर्षचरिते सरस्वतीवर्णके निर्भर्सनताडनजातरागाभ्यामिव स्वभावारुणाभ्यां पादपल्लवाभ्यामुद्भासमाना । अत्र हि-अलक्तकमर्दनेन जातगगाभ्यामिवेत्यर्थः । प्रजननं प्रगमे योनिजन्मनोः । प्रजन्यतेऽस्मिन्वा प्रजननम् ॥ प्रगमो मार्गः ॥१७९॥ प्रणिधानमभियोगे समाधानप्रवेशयोः। प्रणिधीयते प्रणिधानं । समाधाने यथा-सो पश्यत्प्रणिधानेन सन्ततेस्स्तम्भकारणम् । प्रयोजनं कार्यहेत्वोः । प्रयुक्त प्रयोजनं । कार्ये यथा-प्रयोजनापेक्षितया प्रभूणां, प्रायश्चल गौरवमाश्रितेषु । हेतौ यथा-गतस्पृहोऽध्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया । स्यात्प्रवचनमागमे प्रकृष्टवचने । प्रोच्यते प्रकृष्टं वचनमस्य वा प्रवचनम् । मागमे यथा-अनूचानः प्रवचने सांगेऽधीती ॥१८०।। प्रकृष्टवचन इति तत्पुरुषो बहुव्रीहिर्वा, बहुव्रीहिपक्षे वायलिङ्गः । द्वयोरपि पक्षयोर्यथा-प्रवचने कचनापि न विद्विषः । प्रस्फोटनं सूर्ये प्रकाशने ताडने। प्रस्फोट्यतेऽनेन प्रस्फोट्यते वा प्रस्फोटनं । सूप्पे पुंक्लीबः । प्रतिपन्नस्तु विज्ञातेऽङ्गीकृतेऽपि च । प्रतिपद्यते स्म प्रतिपन्नः । वाच्यलिङ्गः। द्वयोर्यथाप्रमदाः पतिवम॑गा इति प्रतिपन्नं हि विचेतनैरपि ॥१८१॥ प्रतियत्न संस्कारे स्यादुपग्रहणलिप्सयोः । प्रतियतनं प्रतियत्नः । यजिस्वपीति
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy