________________
(३६६ . अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
तपस्विनी पुनर्मासी कटुरोहिणिकाऽपि च । तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु ॥१७५॥ देवसेनेन्द्रकन्यायां सैन्ये दिविषदामफि । नागांचना नागयष्टौ द्विरदस्थ क मुदगरे ॥१७॥ निर्यातनं वैरभुदौ दाने न्याससमर्पणे । निधुवनं रते कम्पे निर्वासनन्तु मारणे ॥१७७॥ पुरादेश्च बहिष्कारे निरसनं निषूदने ।
निष्ठीवने निरासे च निशमनं निशामनम् ॥१७८॥ पुनमौसी कटुरोहिणिकाऽपि च । तपोऽस्त्यस्यास्तपस्विनी । “अस्तपो मायेति" विनि डी: । द्वेऽप्योषध्यौ । तिक्तपर्वा हिलमोचीगुडचीमधुयष्टिषु । तिक्तं : पर्व अस्यास्तिकपर्वा । त्रयोऽपि ओषधिभेदाः ॥१७५॥ देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि । देवान् सिनोति देवसेना । सर्वेति नः । देवस्य सेना वा । दिविषदां सैन्ये यथा-या देवसेनेव परैरलंध्या । नागांचना नागयष्टौ द्विरदस्य च मुद्गरे ॥१७६॥ नागानामंचनमनया नागांचना । नागयष्टि गदमनी । निर्यातनं वैरशुद्धौ दाने न्याससमर्पणे। निर्यात्यते निर्यातनं । वैरशुद्धौ यथा-निर्यातनं यातनया रिपूणां । दाने यथा -निर्याय निर्यातनमाततान । न्यासो निक्षेपस्तस्य समर्पणं तत्र यथाज्ञात्वा प्रमाणलिंगादि कुर्यान्निर्यातनं ततः। निधुवनं रते कम्पे । निधूयन्ते अङ्गान्यत्र निधूयते वा निधुवनं । रते यथा-नवनिधुवनलीलां कौतुकेनाभिवीक्ष्य । निर्वासनन्तु मारणे पुरादेश्च बहिष्कारे । निर्वास्यते निर्वासनं । मारणे यथा-मोक्षे चित्तमिव व्यधात्स बहुशो, निर्वासनं विद्विषां ॥१७७||पुरादे - बहिष्कारे यथा-तस्य निर्वासनं कार्य सर्वस्य द्विजकर्मणः । निरसनं निषदने । निष्ठीवने निरासे च । निरस्यते निरसनम् । निशमनं निशामनं । निरीक्षणश्रवणयोः। निशम्यते निशमनं निशामनं वा । शमोऽदर्शने । मतभेदेन वा इस्वः। द्वावपि द्वयों । निशमनमपि पाप्मिनां निषिद्धं ॥१७॥ निर्भर्त्सन