________________
चतुर्थः काण्डः
------- दुराचारे हुताशे च गवादिनीन्द्रवारुणो । घासस्थानं गवादीनां गदयित्नुः शरासने ॥१७॥ जल्पाके पुष्पगपे च घनाघनो निरन्तरे । वासवे घातुके मत्तगजे वर्ष कवारिदे ॥१७२॥ घोषयित्नुः पिके विप्रे चिरजीवी तु वायसे । अजे च चित्रभानुस्तु हुताशनदिनेशयोः ॥१७३॥ जलाटनः कङ्कखगे जलाटनी जलौकसि ।
तपोधना तु मुण्डीयाँ तपोधनस्तपस्विनि ॥१७४॥ द्रोणो अश्वत्थामपिता । अगस्तौ यथा-प्रससादोदया दंभः कुम्भयोनेर्महौजसः । कृष्णवर्मा विधुन्तुदे । दुराचारे हुताशे च । कृष्णं वाऽस्य कृष्णवर्मा ॥१७०॥ दुराचारे वाच्यलिङ्गः। हुताशे यथा-दाहशक्तिमिव कृष्णवर्त्मनि । पापेऽपि । गवादिनीन्द्रवारुणी घासस्थानं गवादीनां । गावोऽदन्त्यस्यां गवादिनी। अनटि स्वरे वा नक्ष इत्यवादेशः । गदयित्नुः शरासने जल्पाके पुष्पचापे च । गदयति गदयित्नुः । हृषि पुषीति इत्नुः ॥१७१॥ जल्पाके चाच्यलिङ्गः । शेषयोः पुंसिः। शरासनं धनुः । पुष्पचापः स्मरः । घनाघनो निरन्तरे। वासवे घातुके मत्तगजे वर्ष कवारिदे। हन्ति घनाघनः । “अचि" चराचरेति साधुः । घातुके वाच्यलिङ्गः। तत्र वासवे च यथा-परमदानवलोकघनाघना । मत्तगजवर्षकवारिदयोर्यथा-घनाघनानीलघनाघनप्रियाम् ॥१७२॥ घोषयित्नुः पिके विप्रे । घोषयति घोषयित्नुः । हृषि पुषीति (उ०७९७) इत्नुः । पुंसि । चिरजीवी तु वायसे अजे च । चिरं जीवति चिरनीवी। णिन् । अजो ब्रह्मा । चित्रभानुस्तु हुताशनदिनेशयोः । चित्रा भानवोऽस्य चित्रभानुः । पुंसि । द्वयोर्यथा-साध्यकर्मणि समाप्तिमागते चित्रभानुमृषयोऽभ्युपासते ॥१७३॥ जलाटनः कंकखगे। जलेऽटनमस्य जलाटनः। जलाटनी जलौकसि । गौरादित्वाड्डीः। तपोधनातु मुण्डीयों । तपः सन्तापो धनमस्यास्तपोधना । मुण्डीरी ओषधिभेदः। तपोधनस्तपस्विनि । तपो वतं धनमस्य तपोधनः । यथा-तपोधनाकारधरा सरस्वती ॥१७॥ तपस्विनी