________________
(३६४ अनेकार्थसंग्रहः सटीक । द्वितीयो विभागः
कलध्वनिः परभृते पारापतकलापिनोः। कात्यायनो वररुचौ, कात्यायनी तु पार्वती ॥१६७॥ कषायवस्त्रं विधवाऽर्द्धवृद्धा महिलाऽपि च । कामचारी कलम्बिके, स्वेच्छाचारिणि कामुके ॥१६८॥ कारन्धमी धातुवादनिरते कांस्यकारिणि । . किष्कुपा पोटगले स्यादिक्षुत्वचिसारयोः ॥१६९।। कुचन्दनं वृक्षभेदे पत्राङ्के रक्तचन्दने ।
कुम्भयोनिद्रोणेऽगस्तौ कृष्णवर्मा विधुन्तुदे ॥१७॥ ४२) तस्यापत्यं युवा कात्यायनः । “यजिन (६-१-५४) इत्यायनण् ॥ यथा-कात्यायनेन ते (मते) सृष्टा विबुद्धि प्रतिबुद्धये । कात्यायनी तु पार्वती। कषायवस्त्रं विधवाऽर्द्धवृद्धामहिलाऽपि च । कात्यशब्दात् "योडायं न्नवेति डोः ।" (२-१-६७) कात्यायनी पार्वत्यां । यथा-प्रसाधयतु वः कृत्यानि कात्यायनी ॥१६७॥ कषाय(काषाय)वस्त्रं विधवा अर्धवृद्धा महिलापि । कषायवस्त्रा चासौ विधवा च सा चासौ अर्धवृद्धामहिला च सा तथा । तस्यां कात्यायनी च । कात्यायनी यथा-कात्यायनी नीतिविशारदा चेत् । कामचारी कलम्बिके स्वेच्छाचारिणि कामुके। कामेन चरति कामचारी । स्वेच्छाचारिणि कामुके च वाच्यलिङ्गः । कलम्बिकश्चटकः । स्वेच्छाचारिणि यथा-न त्वं दृष्ट्वा न पुनरल कां ज्ञास्यसे कामचारिन् ॥१६८॥ कारन्धमी धातुवादनिरते कांस्यकारिणि । करं धमति, पाणिकरादिति खशि करन्धमः। स्वार्थे प्रज्ञाद्यणि कारंधमः । सोऽस्यास्तीति कारन्धमी । वाच्यलिङ्गः । किष्कुपा पोटगले स्यादिक्षुत्वचिसारयोः । किष्कुप्रमाणानि पाण्यस्य किष्कुपर्वा । पोटगलो नडः । इक्षुः रसालः । त्वचिसारो वंशः।। १६९॥ कुचन्दनं वृक्षभेदे पत्राङ्गे रक्तचन्दने । कौ कुत्सितं वा चन्दनं कुचन्दनं । पत्राङ्गं पट्टरंजनं -यन्निघंटुः । कुचन्दने तु पत्राङ्गं पत्तगं पट्टरंजनम् । रक्तचन्दनं भास्करप्रियम् । कुम्भयोनिर्दोणेऽगस्तौ। कुम्भयोनिरस्य कुम्भयोनिः ।