________________
चतुथः काण्डः
शुश्रूषायां शराभ्यासेऽप्युपाधानं तु गण्डके । व्रते विशेषे प्रणये स्यादुत्पनमुत्प्लुतौ ॥ १६४ ॥ उत्पत्तावुयनस्तु वत्सराजे घटोद्भवे । उत्सादन समुल्लेखो वर्तेनोद्यानेष्वपि ॥ १६५ ॥ उद्वाहनं द्विसीत्ये स्यादुद्वाहनी वटारके । कपीतनः गर्दभाण्डशिरीषा म्रातपिप्पलाः ॥ १६६ ॥
PASS
तत्र करणपक्षे यथा - उद्वर्तनं भर्त्तुरथापयन्ती । अपावृत्तौ यथा-मोधीकर्तु चटु (बहुल) शफरोद्वर्त्तनप्रेक्षितानि | उपासनमासने शुश्रूषायां शराऽभ्यासेऽपि । उपास्यते उपासनं । त्रिष्वपि यथा-उपासनं तत्र दृढं किमुदभुतं ॥ १६३॥ उपधानं तु गण्डके । व्रते विशेषे प्रणये । उपाधी T उपाधोयते उपाधानं । गण्डके उच्छीर्षके यथा नागांचे मोकुमिच्छो: शयनमुरुफणाचक्रवालोपधानं । व्रते यथा श्रताराधनमाधेयमुपधानविधानतः । विशेषो विशेषणं । स्यादुत्पतनमुत्प्लुतौ उत्पत्तौ । उत्पत्यते उत्पतनं । उल्लुती यथा-परभृतशिशो मौनं । तावद्विधेहि नभस्तलेात्पतनविषये पक्षौ स्यातां न यावदिमौ क्षमौ ॥१६४॥ उदयनस्तु वत्सराजे घटोद्भवे । उदयते उदयनः । नन्द्रयादिभ्योऽनः । वत्सराजे यथा- प्राप्यावन्तीमुदयन्कथाकोविद ग्रामवृद्धान् । घटोद्भवोऽगस्तिः । उत्सादनं समुल्लेखोद्वर्त्तनोद्वाहनेष्यथ । उत्सादयते उत्सादनं । ॥ १६५ ॥ उद्वाहनं द्विसीत्ये स्यात् । उद्वाह्यते उद्वाहनं । द्वाभ्यां सीताभ्यां संगतं द्विसीत्यं - द्विकृष्टं । उद्वाहनी वढारके | वटारको रज्जुः । कपीतनः (नो) गर्दभाण्डशिरीषात्रात पिप्पलाः । कपी तनोति कपीतनः । लिहायच् । कम्पते वा "विदनग - गनेति साधुः " चत्वारोऽपि वृक्षाः || १६३ || कलध्वनिः परभृते पारापतकलापिनोः । कलो ध्वनिरस्य कलध्वनिः । त्रिष्वपि यथा - कलध्वनौ कूजति पान्थसार्थाः प्रियां स्मरंति स्मरतापतप्ताः कात्यायनो वररुचौ । कतस्यापत्यं वृद्धं कव्यः ॥ “गर्गादेर्यञ् " ।। ( ६-- १
1